________________
रत्नकरण्डकश्रावकाचारे
एकफलेकनार्य समुद्रं धृतमाणिक्यवांछया सिंहपुरे सत्यघोषसमीप मायातः । तं च रंकसमानमागच्छन्तमालोक्य तन्माणिक्यहरणार्थिना सत्यघोषेण प्रत्ययपूरणार्थ समीपोपविष्टपुरुषाणां कथितं । अयं पुरुषः स्फुटितप्रवहणः ततो पहिलो जातोऽत्रागत्य माणिक्यानि याचिष्यति । तेनागत्य प्रणम्य चोक्तं भो सत्यघोष पुरोहित! ममार्थोपार्जनार्थ गतस्योपार्जनार्थस्य महानथोजात इति मत्वा यानि मया तव रत्नानि धर्तुं समर्पितानि तानीदानी प्रसादं कृत्वा देहि । येनात्मानं स्फुटितप्रवहणात् गतद्रव्यं समुद्धरामि । तद्वचनमाकर्ण्य कपटेन सत्यघोषेण समीपोपविष्टा जना भणिता मया प्रथमं यद् भणितं तद् भवतां सत्यं जातं । तैरुक्तं भवन्त एव जानन्त्ययं प्रहिलोऽस्मात् स्थानान्निःसार्यतामित्युक्त्वा तैः समुद्रदत्तो गृहानिःसारितः ग्रहिल इति भयण्मानः । पत्तने पूत्कारं कुर्वन् ममानय॑पंचमाणिक्यानि सत्यघोषेण गृहीतानि तथा राजगृहसमीपे चिंचावृक्षमारुह्य पश्चिमरात्रे पूत्कारं कुर्वन् षण्मसान् स्थितः तां प्रकृतिमाकर्ण्य रामदत्तया भणितः सिंहसेनः—देव ! नायं पुरुषः अहिलः । राज्ञापि भणितं किं सत्यघोषस्य चौर्य संभाव्यते । पुनरुक्तं राश्या देव ! संभाव्यते तस्य चौर्य यतोऽयमेतादृशमेव सर्वदा वचनं ब्रवीति । एतदाकर्ण्य भणितं राज्ञा-यदि सत्यघोषस्यैतत् संभाव्यते तदा त्वं परीक्षयेति । लब्धादेशया रामदत्तया सत्यघोषो राजसेवार्थमागच्छन्नाकार्य पृष्टः-किं बृहद्वेलायामागतोऽसि ! तेनोक्तं-मम ब्राह्मणीभ्राताद्य प्राघूर्णकः समायातस्ते भोजयतो बृहद्वेला लग्नेति । पुनरप्युक्तं तया-क्षणमेकमत्रोपविश ममातिकौतुकं जातं । अक्षक्रीडां कुर्मः । राजापि तत्रैवागतस्तेनाप्येवं कुर्वित्युक्तं । ततोऽक्षयूते क्रीडया संजाते रामदत्तया निपुणमतिविलासिनी कर्णे लगित्वा भणिता सत्यघोषः पुरोहितो राज्ञीपार्वे तिष्ठति तेनाहं अहिल
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org