SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः। तत्र मारय येनावयोनिरंकुशमवस्थानं भवतीति ब्रुवाणां मातरमाकर्ण्य सुन्दर्या गुणपालस्य कथितं—अद्य रात्रौ गोधनं गृहीत्वा प्रसरे त्वामटव्यां प्रेषयित्वा कुण्डलहस्तेन माता मारयिष्यत्यतः सावधानो भवेस्त्वमिति । धनश्रिया च रात्रिपश्चिमप्रहरे गुणपालो भाणितो हे पुत्र कुंडलस्य शरीरं विरूपकं वर्तते अतः प्रसरे गोधनं गृहीत्वाद्य त्वं व्रजेति । स च गोधनमटव्यां नीत्वा काष्ठं च वस्त्रेण पिधाय तिरोहितो भूत्वा स्थितः । कुण्डलेन चागत्य गुणपालोऽयमिति मत्वा वस्त्रप्रच्छादितकाष्ठे घातः कृतो गुणपालेन च स खङ्गेण हत्वा मारितः। गृहे आगतो गुणपालो धनश्रिया पृष्टः क रे कुण्डलः तेनोक्तं कुण्डलवार्तामयं खाङ्गेऽभिजानाति । ततो रक्तलिप्तं बाहुमालोक्य स तेनैव खड्नेन मारितः । तं च मारयन्ती धरश्रियं दृष्ट्वा सुन्दा मुशलेन सा हता। कोलाहले जाते कोट्टपालै धनश्री धुत्बा राज्ञोऽग्रेनीता । राज्ञा च गर्दभारोहणे कर्णनासिकाछेदनादिनिग्रहे कारिते मृत्वा दुर्गति गतेति प्रथमाणुव्रतस्य । सत्यघोषोऽनृताद्वहुदुःखं प्राप्तः। . इत्यस्य कथा। जंबूद्वीपे भरतक्षेत्रे सिंहपुरे राजा सिंहसेनो राज्ञी रामदत्तः, पुरोहितः श्रीभूतिः स ब्रह्मसूत्रे कर्तिकां बध्वा भ्रमति । वदति च यद्यसत्यं ब्रवीमि तदाऽनया कत्रिकया निजजिव्हाच्छेदं करोति (मि ) । एवं कपटेन वर्तमानस्य तस्य सत्यघोष इति द्वितीयं नाम संजातः । लोकाश्च विश्वस्तास्तत्पार्श्वे द्रव्यं धरन्ति च । तद्रव्यं किंचित्तेषां समर्प्य स्वयं गृह्णाति । पूत्कर्तुं च बिभेति लोकः । न च पूत्कृतं राजा शृणोति । अथैकदा पद्मखण्डपुरादागत्य समुद्रदत्तो वणिपुक्त्रस्तंत्र सत्यघोषपार्वेऽनर्घाणि पंच माणिक्यानि धृत्वा परतीरे द्रव्यमुपार्जयितुं गतः । तत्र च तदुपार्य व्याधुटितः स्फुटितप्रवहण Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy