________________
तृतीयः परिच्छेद ।
गते सा नीली देवाग्रे संगृहीत्वा कायोत्सर्गेण स्थिता दोषोत्तारे भोजनादौ प्रवृत्तिर्मम नान्यथेति । ततः क्षुभितनगरदेवतया आगत्य रात्रौ सा भणिता- हे महासति ! मा प्राणत्यागमेवं कुरु अहं राज्ञः प्रधानानां पुरजनस्य स्वप्नं ददामि । लग्ना यथा नगरप्रतोल्यः कीलिता महासती वामचरणेन संस्पृश्य उद्धरिष्यन्तीति ताश्च प्रभाते भवच्चरणं स्पृष्ट्वा एवं वा उद्धरिष्यन्तीति पादेन प्रतोली स्पर्शे कुर्यास्त्वमिति भणित्वा राजादीनां तथा स्वमं दर्शयित्वा पत्तनप्रतोली : कीलित्वा स्थिता सा नगरदेवता प्रभाते कीलिताः प्रतोलार्दृष्ट्वा राजादिभिस्तं स्वप्नं स्मृत्वा नखरस्त्रीचरणताडनं प्रतोलीनां कारितं । न चैकापि प्रतोली कयाचिदप्युद्धरिता । सर्वासां पश्चान्नीली तत्रोत्क्षिप्य नीता । तच्चरणस्पर्शात् I सर्वा अप्युद्धरिताः प्रतोल्यः, निर्दोषा राजादिपूजिता नीली जाता चतुर्था•
व्रतस्य ।
५१
परिग्रहविरत्यणुव्रताज्जयः पूजातिशयं प्राप्तः ।
अस्य कथा
कुरुजांगलदेशे हस्तिनागपुरे कुरुवंशे राजा सोमप्रभः पुत्रो जयः परिमितपरिग्रहो भार्यासुलोचनायामेव प्रवृत्तिः । एकदा पूर्वविद्याधरभवकथनानन्तरं समायातपूर्व जन्मविद्यो हिरण्यधर्मप्रभावती विद्याधररूपमादाय च मेर्वाद वन्दनाभक्तिं कृत्वा कैलासगिरौ भरतप्रतिष्ठापितचतुर्विंशतिजि नालयान् वन्दितुमायातौ सुलोचनाजयौ । तत्प्रस्तावे च सौधर्मेन्द्रेण जयस्य स्वर्गे परिग्रहपरिमाणत्रतप्रशंसा कृता । तां परीक्षितुं रतिप्रभदेवः समायातः ततः स्त्रीरूपमादाय चतसृभि विलासिनीभिः सह जयसमीपं गत्वा भणितो जयः । सुलोचनास्वयंवरे येन त्वया सह संग्रामः कृतः तस्य नमिविद्याधरपते राज्ञीं सुरूपामभिनवयौवनां सर्वविद्याधारिणीं
१ जन्माद्यः ग घ । २ वर्म ग. घ. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org