SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ रत्नकरण्डकश्रावकाचार ततः परं नीली जयश्च । ततस्तेभ्यः परं यथा भवन्त्येवं पूजातिशयं प्राप्तौ । तत्राब्रह्मविरत्यणुव्रतान्नीली वणिकपुत्री पूजातिशयं प्राप्ता। अस्याः कथा। लोटदेशे भृगुकच्छपत्तने राजा वसुपालः। वणिग्जिनदत्तो भार्या जिनदत्ता पुत्री नीली अतिशयेन रूपवती। तत्रैवापरः श्रेष्ठी समुद्रदत्तो भार्या सागरदत्ता पुत्रः सागरदत्तः। एकदा महापूजायां वसन्तौ कायोत्सर्गेण संस्थितां सर्वाभरणविभूषितां नीलीमालोक्य सागरदत्तेनोक्तं किमेषापि देवता काचिदे तदाकर्ण्य तन्मित्रेण प्रियदत्तेन भणित-जिनदत्तश्रेष्ठिन इयं पुत्री नीली। तद्पालोकनादतीवासक्तो भूत्वा कथमियं प्राप्यत इति तत्परिणयनचिन्तया दुर्बलो जातः । समुद्रदत्तेन चैतदाकर्ण्य भणित:-हे पुत्र ! जैनं मुक्त्वा नान्यस्य जिनदत्तो ददातीमां पुत्रिकां परिणेतुं । ततस्तौ कपटश्रावको जातौ परिणीता च सा ततः पुनस्तौ बुद्धभक्तौ जातो, नील्याश्च पितृगृहे गमनमपि निषिद्धं, एवं वंचनेजाते भणितं जिनदत्तेन इयं मम न जाता कूपादौ वा पतिता यमेन वा नीता इति । नीली च श्वशुरगृहे भर्तुः वल्लभा भिन्नगृहे जिनधर्ममनुष्ठतीति दर्शनात् संसर्गाद्वचनधर्मदेवाकर्णनाद्वा कालेनेयं बुद्धभक्ता भविष्यतीति पर्यालोच्य समुद्रदत्तेन भणिता नीली-पुत्रि ! ज्ञानिनां वन्दकानामस्मदर्थे भोजनं देहि । ततस्तया वन्दकानामामंत्र्याहूय च तेषामेकैका प्राणहितातिपिष्टा संस्कार्य तेषामेव भोक्तुं दत्ता । तैर्भोजनं भुक्त्वा गच्छद्भिः प्रष्ट-क प्राणहिताः ? तयोक्तंभवन्त एव ज्ञानेन जानन्तु यत्र तास्तिष्ठन्ति यदि पुनर्ज्ञानं नास्ति तदा वमनं कुर्वन्तु भवतामुदरे प्राणहितास्तिष्ठन्तीति । एवं वमनं कृतं दृष्टानि प्राणहिताखण्डानि । ततो रुष्टश्च श्वशुरपक्षजनः । ततः सागरदत्तभगिन्या कोपात्तस्या असत्यपरपुरुषदोषोद्भावना कृता । तस्मिन् प्रसिद्धिं १ ललाटेदेशे ग. । २ मृष्टा ग. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy