________________
द्वितीयः परिच्छेदः। विभक्तेः' लोक्यन्ते जीवादयः पदार्था यत्रासौ लोकस्त्रिचत्वारिंशदधिकशतत्रयपरिमितरज्जुपरिमाणः,---तद्विपरितोऽलोकोऽनन्तमानावच्छिन्नशुद्धाकाशस्वरूपः तयोविभक्तिविभागो भेदस्तस्याः आदर्शमिव तथा 'युगपरिवृत्तेः' युगस्य कालस्योत्सर्पिण्यादेः परिवृत्तिः परावर्तनं तस्या आदर्शमिव तथा 'चतुर्गतीनां च' नरकतिर्यग्मनुष्यदेवलक्षणानामादर्शमिव ॥३॥ तथाःतवचारित्तमुणीणं किरियाणं रिद्धिसहियाणं । उवसगं सण्णासं संचरणाणिउपं पसंसंति ॥१॥ गृहमेध्यनगाराणां चारित्रोत्पत्तिवृद्धिरक्षाङ्गम् ।
चरणानुयोगसमयं सम्यग्ज्ञानं विजानाति ॥ ४॥ 'सम्यग्ज्ञानं' भावश्रुतरूपं । विशेषेण जानाति । कं ? चरणानुयोगसमयं चारित्रप्रतिपादकं शास्त्रामाचारादि । कथंभूतं ? चारित्रोत्पत्तिवृद्धिरक्षाङ्गं चारित्रस्योत्पत्तिश्चवृद्धिश्च तासामङ्गंकारणं अंगानि वा। कारणानि प्ररूप्यन्ते यत्र । केषां तदङ्गं ? 'गृहमेध्यनगाराणां' गृहमेधिनः श्रावकाः अनगारा मुनयस्तेषां ॥ ४ ॥
जीवाजीवसुतत्वे पुण्यापुण्ये च बन्धमोक्षौ च । - . द्रव्यानुयोगदीपः श्रुतविद्यालोकमातनुते ॥ ५ ॥ 'द्रव्यानुयोगदीपो' द्रव्यानुयोगसिद्धान्तसूत्रं तत्वार्थसूत्रादिस्वरूपो द्रव्यागमः स एव दीपः स 'आतनुते' विस्तारयति अशेषविशेषतः प्ररूपयति। के ? 'जीवाजीवसुतत्त्वे ' उपयोगलक्षणो जीवः तद्विपरीतोऽजीवः तावेव शोभने अबाधिते तत्वे वस्तुस्वरूपे आतनुते । तथा 'पुण्यापुण्ये' सद्वद्यशुभायुर्नामगोत्राणि हि पुण्यं ततोऽन्यत्कर्मापुण्यमुच्यते ते च मूलोत्तरप्रकृतिभेदेनाशेषविशेषतो द्रव्यानुयोगदीप आतनुते । तथा 'बन्धमोक्षौ च'
१ गाथेयं क एव । २ द्रव्यानुयोगः सिद्धान्तः ख ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org