________________
. रत्नक
रत्नकरण्डकश्रावकाचारे--
तस्य विषयभेदाढ़ेदप्ररूपयन्नाहः. प्रथानुयोगमाख्यानं चरितं पुराणमपि पुण्यम् ।
बोधिसमाधिनिधानं बोधति बोधः समीचीनः ॥२॥ 'बोधः समीचीन:' सत्यं श्रुतज्ञानं । 'बोधति' जानाति।कं ? प्रथमानुयोगं । किं पुनः प्रथमानुयोगशब्देनाभिधीयते इत्याह-'चरितं पुराणमपि' एकपुरुषाश्रिता कथा चरितं त्रिषष्टिशलाकापुरुषाश्रिता कथा पुराणं तदुभयमपि प्रथमानुयोगशब्दाभिधेयं । तत्प्रकल्पितत्वव्यवच्छेदार्थमाख्यानमिति विशेषणं, अर्थस्य परमार्थस्य विषयस्याख्यानं यत्र येन वा तं। तथा पुण्यं प्रथमानुयोगं हि शृण्वतां पुण्यमुत्पद्यते इति पुण्यहेतुत्वात्पुण्यं तदनुयोगं । तथा 'बोधिसमाधिनिधानं ' अप्राप्तानां हि सम्यग्दर्शनार्दीनां प्राप्तिर्बोधिः प्राप्तानां तु पर्यन्तप्रापणं समाधिः ध्यानं वा धर्मशुक्लं च समाधिः लयोनिधानं तदनुयोगं हि शृण्वतां दर्शनादेः प्राप्त्यादिकं धर्मध्यानादिकं च भवति । तथाःअंह उड्डुतिरियलोए दिसि विदिसं जपमाणियं भणियं । करणाणि तु सिद्धं दीवसमुहा जिगगेहा ॥१॥ लोकालोकविभक्तेर्युगपरिवृत्तेश्चतुर्गतीनां च ।
आदर्शमिव तथामतिरवैति करणानुयोगं च ॥३॥ 'तथा' तेन प्रथमानुयोगप्रकरण । 'मतिर्मननं श्रुतज्ञानं' । अवैति जानाति । कं ? 'करणानुयोग' लोकालोकविभागं पंचसंग्रहादिलक्षणं । कथं भूतमिव ? 'आदर्शमिव' यथा आदर्शो दर्पणो मुखादेर्यथावत्स्वरूपप्रकाशकस्तथा करणानुयोगोऽपि स्वविषयस्यायं प्रकाशकः । 'लोकालोक. १ इयं गाथापि ख. ग. पुस्तकयो स्ति ।
२ मतिज्ञानं नश्रुतज्ञानम् इति ग पुस्तके।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org