SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ज्ञानाधिकारो द्वितीयः। अथ दर्शनरूपं धर्म व्याख्याय ज्ञानरूपं तं व्याख्यातुमाहः अन्यूनमनतिरिक्तं याथातथ्यं विना च विपरीतात् । निःसन्देहं वेद यदाहुस्तज्ज्ञानमागमिनः ॥१॥ 'वेद' वेत्ति । 'यत्तदाहुर्बुवते । 'ज्ञान' 'भावश्रुतरूपं' । के ते? 'आगामिनः' आगमज्ञाः । कथं वेद ? 'निःसन्देहं' निःशंसयं यथा भवति तथा । 'विना च विपरीतात्' विपरीताद्विपर्ययाद्विनैव विपर्ययव्यवच्छेदेनेत्यर्थः । तथा 'अन्यून' परिपूर्ण सकलं वस्तुस्वरूपं यद्वेद 'तद्ज्ञानं न न्यूनं विकलं तत्स्वरूपं यद्वेद, तर्हि जीवादिवस्तुस्वरूपेऽविद्यमानमपि सर्वथा नित्यत्वक्षणिकत्वाद्वैतादिरूपं कल्पयित्वा यद्वेत्ति तदधिकाथै विदित्वा ज्ञानं भविष्यतीत्यत्राह-'अनतिरिक्तं ' वस्तुस्वरूपादनतिरिक्तमनाधिकं यद्वेद तज्ज्ञानं न पुनस्तद्वत्स्वरूपादधिकं कल्पनाशिल्पिकल्पितं यद्वेद । एवं चैतद्विशेषणचतुष्टयसामर्थ्याद्यथाभूतार्थवेदकत्वं तस्य संभवति तदर्श यति-याथातथ्यं यथावस्थितवस्तुस्वरूपं यद्वेद तद्ज्ञानं भावश्रुतं । यद्रूपस्यैव ज्ञानस्य जीवाद्यशेषार्थानामशेषविशेषतः केवलज्ञानवत् साकल्येन स्वरूपप्रकाशनसामर्थ्यसम्भवात् । तदुक्तं:- . स्याद्वादकेवलज्ञाने सर्वतत्वप्रकाशने भेदः साक्षादसाक्षाच्च वस्त्वन्यतमं भवेत् ॥ १॥ इति । अतस्तदेवानुधर्मत्वेनाभिप्रेयं । भेदात्तस्यैव मुख्यतो मूलकारणभूततया स्वर्गापवर्गसाधनसामर्थ्यसंभवात् ॥१॥ १ विदितत्वात् ग। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy