________________
रत्नकरण्डकश्रावकाचारे
र्चनीयं' अवन्यां निजनिजपृथिव्यां इन्द्रा मुकुटबद्धा राजानस्तेषां शिरोभिरर्चनीयं । तथा धर्मेन्द्रचक्रं लब्ध्वा धर्मस्योत्तमक्षमादिलक्षणस्य वा इन्द्रा अनुष्ठातारः प्रणेतारो वा तीर्थकरादयस्तेषां चक्रं संघातो धर्मिणां वा तीर्थकृतां सूचकं चक्रं धर्मचक्रं । कथंभूतं ? ' अधरीकृतसर्वलोकं' अधरीकृतः भृत्यतां नीतः सर्वलोकस्त्रिभुवनं येन । एतत्सर्वं लब्ध्वा पश्चाच्छिवं चोपैति भव्य इति ॥ ४१॥
इति प्रभाचन्द्रविरचितायां समन्तभद्रस्वामिविरचितो. पासकाध्ययनटीकायां प्रथमः परिच्छेदः॥१॥ .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org