SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः । पर्यालोच्य तद्वधार्थं युगपच्चतुर्भिः खड्गा उद्गीर्णाः । कंपितनगरदेवतया तथैव ते कीलिताः । प्रभाते अ ( त ) थैव ते सर्वलोकैर्दृष्टाः । रुष्टेन राज्ञा क्रमागता इति न मारिता गर्दभारोहणादिकं कारयित्वा निर्घाटिताः । अथ कुरुजांगलदेशे हस्तिनागपुरे राजा महापद्मो राज्ञी लक्ष्मीमती पुत्रौ पद्मो विष्णुश्च । स एकदा पद्माय राज्यं दत्वा महापद्मो विष्णुना सह श्रुतसागरचंद्राचार्यस्य समीपे मुनि - र्जातः । ते च बलिप्रभृतय आगत्य पद्मराजस्य मंत्रिणो जाताः । कुम्भपुरदुर्गे च सिंहबलो राजा दुर्गबलात् पद्ममण्डलस्योपद्रवं करोति । तद्ग्रहणचिन्तया पद्मं दुर्बलमालोक्य बलिनोक्तं किं देव ! दौर्बल्ये कारणमिति । कथितं च राज्ञा । तच्छ्रुत्वा आदेशं याचयित्वा तत्र गत्वा बुद्धिमाहात्म्येन दुर्गे भंक्त्वा सिंहबलं गृहीत्वा व्याघुय्यागतः । तेन पद्मस्यासौ समर्पितः । देव ! सोऽयं सिंहबल इति । तुष्टेन तेनोक्तं वांछित वरं प्रार्थयेति । बलिनोक्तं यदा प्रार्थयिष्यामि तदा दीयतामिति । अथ कतिपयदिनेषु विहरन्तस्तेऽकम्पनाचार्यादयः सप्तशतयतयस्तत्रागताः । पुरक्षोभाद्रलिप्रभृतिस्तान् परिज्ञाय राजा एतद्भक्त इति पर्यालोच्य भयात्तन्मारणार्थं पद्मः पूर्ववरं प्रार्थितः सप्तदिनान्यस्माकं राज्यं देहीति । ततोऽसौ सप्तदिनानि राज्यं दत्वाऽन्तःपुरे प्रविश्य स्थितः । बलिना च आतापनगिरौ कायोत्सर्गेण स्थितान् मुनीन् वृत्या वेष्टय मण्डपं कृत्वा यज्ञः कर्तुमारब्धः । उच्छिष्टसरावच्छागादिजीव कलेवरैर्धूमैश्च मुनीनां मारणार्थमुपसर्गः कृतः । मुनयश्च द्विविधसंन्यासेन स्थिताः । अथ मथि - लानगर्यामर्धरात्रे बहिर्विनिर्गतश्रुतसागरचन्द्राचार्येण आकाशं श्रवणनक्षत्रं · कम्पमानमालोक्यावधिज्ञानेन ज्ञात्वा भणितं महामुनीनां महानुपसर्गो वर्तते तच्छ्रुत्वा पुष्पधरनाम्ना विद्याधरक्षुलकेन पृष्टं भगवन् ! क केषां मुनीनां महानुपसर्गो वर्तते ? हस्तिनापुरे अकम्पनाचार्यादीनां सप्तशत Jain Education International For Personal & Private Use Only २१ www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy