________________
प्रथमः परिच्छेदः।
numan
चोरेणोक्तं प्रिये ! किमेवे स्थितासीति । तयोक्तं श्रीकीर्तिश्रेष्ठिन्या हार यदि मे ददासि तदा जीवामि त्वं च मे भर्ता नान्यथेति श्रुत्वा तां समुदीर्य अर्धरात्रे गत्वा निजकौशलेन तं हारं चोरयित्वा निर्गतः । तदुद्योतेन चौरोऽयमिति ज्ञात्वा गृहरक्षकैः कोट्टपालैश्च ध्रियमाणो पलायितुमसमर्थो वारिषेणकुमारस्याने तं हारं धृत्वाऽदृश्यो भूत्वा स्थितः। कोट्टपालैश्च तं तथालोक्य श्रेणिकस्य कथितं देव ! वारिषेणश्चौर इति। तं श्रुत्वा तेनोक्तं मूर्खस्यास्य मस्तकं गृह्यतामिति। मातंगेन योऽसिः शिरोग्रहणार्थ वाहितः स कण्ठे तस्य पुष्पमाला बभूव । तमतिशयमाकर्ण्य श्रेणिकेन गत्वा वारिषेणः क्षमा कारितः । लब्धाभयप्रदानेन विद्युच्चौरेण राज्ञो निजवृत्तान्ते कथिते वारिषेणो गृहे नेतुमारब्धः । तेन चोक्तं मया पाणिपात्रे भोक्तव्यमिति । ततोऽसौ सूतसेनमुनिसमीपे मुनिरभूत् । एकदा राजगृहसमीपे पलासकूटग्रामे चर्यायां स प्रविष्टः । तत्र श्रेणिकस्ययोऽग्निभूतिमंत्री । तत्पुत्रेण पुष्पजलेन स्थापितं चया कारयित्वा स सोमिल्लां निजभार्या पृष्ट्वा प्रभु पुत्रत्वाद्वालसखित्वाच्च स्तोकं मार्गानुव्रजनं कर्तुं वारिषेणेन सह निर्गतः । आत्मनो व्याघुटनार्थ क्षीरवृक्षादिकं दर्शयन् मुहुर्मुहुर्बन्दनां कुर्वन् हस्ते धृत्वा नीतो विशिष्टधर्मश्रवणं कृत्वा वैराग्यं नीत्वा तपो ग्राहितोऽपि सोमिल्लां न विस्मरति । तौ द्वावपि द्वादशवर्षाणि तीर्थयात्रां कृत्वा वर्धमानस्वामिसमवशरणं गतौ । तत्र वर्धमानस्वामिनः पृथि-. व्याश्च सम्बन्धिगीतं देवैर्गीयमानं पुष्पडोलेन श्रुतं । यथा
" मइलकुचली दुम्मनी नौहे पविसिय एण ।
कह जीवेसइ धणियघर उज्झते हियएण ॥" एतदात्मनः सोमिल्लायाश्च संयोज्य उत्कण्ठितश्चलितः। स वारिषेणेन ज्ञात्वा स्थिरीकरणाथै निजनगरं नीतः । चेलिन्या तौ दृष्टा वारिषेणः किं ... १ लाडेन ख । २ नाहेए वसियएण ख ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org