SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ रत्नकरण्डकश्रावकाचारे उपगूहने जिनेन्द्रभक्तो दृष्टान्तोऽस्य कथासुराष्ट्रदेशे पाटलिपुत्रनगरे राजा यशोधरो राज्ञी सुसीमा पुत्रः सुवीरः सप्तव्यसनाभिभूतस्तथाभूततस्करपुरुषसेवितः । पूर्वदेशे गौडविषये ताम्रलिसनगर्यो जिनेन्द्रभक्त श्रेष्ठिनः सप्ततलप्रासादोपरि बहुरक्षकोपयुक्तपार्श्वनाप्रतिमाछत्र योपरि विशिष्टतरानर्ध्यवैडूर्यमणि पारंपर्येणाकर्ण्य लोभात्तेन सुवीरेण निजपुरुषाः पृष्टाः तं माणं किं कोऽप्यानेतुं शक्तोऽस्तीति । इन्द्रमुकुटमणिमप्यहमानयामीति गलगर्जितं कृत्वा सूर्यनामा चौरः कपटेन क्षुल्लको भूत्वा अतिकायक्लेशेन ग्रामनगरक्षोभं कुर्वाणः क्रमेण तामलिप्तनगरौं गतः। तमाकर्ण्य गत्वाऽलोक्य वन्दित्वा संभाष्य प्रशस्य क्षुभितेन जिने - -न्द्रभक्त श्रेष्टिना नीत्वा पार्श्वनाथदेवं दर्शयित्वा मायया अनिच्छन्नपि स तत्र मणिरक्षको धृतः । एकदा क्षुलकं पृष्ट्वा श्रेष्ठी समुद्रयात्रायां चलि - तो नगराद्वहिर्निर्गत्य स्थितः । स चौरक्षुल्लको गृहजनमुपकरण नयनव्य ज्ञात्वा अर्धरात्रे तं मणि गृहीत्वा चलितः । मणितेजसा मार्गे कोट्टपालैर्दृष्टो धर्तुमारब्धः । तेभ्यः पलायितुमसमर्थः श्रेष्ठिन एव शरणं प्रविष्टो मां रक्ष 1 रक्षेति चोक्तवान् कोट्टपालानां कलकलमाकर्ण्य पर्यालोच्य तं चौरं ज्ञात्वा दर्शनेोपहासप्रच्छादनार्थं भणितं श्रेष्ठिना मद्वचनेन रत्नमनेनानीतिमिति विरूपकं भवद्भिः कृतं यदस्य महातपस्विनौरोद्घोषणा कृता । ततस्ते तस्य प्रमाणं कृत्वा गताः । स च श्रेष्ठिना रात्रौ निर्घाटितः । एवमन्येनापि सम्यग्दृष्टिना असमर्थज्ञानपुरुषादागतदर्शनदोषस्य प्रच्छादनं कर्तव्यं । स्थितीकरणे वारिषेणो दृष्टान्तोऽस्य कथा - मगधदेशे राजगृहनगरे राजा श्रेणिको राज्ञी चेलिनी पुत्रो वारिषेणः उत्तमश्रावकः चतुर्दश्यां रात्रौ कृतोपवासः श्मशाने कायोत्सर्गेण स्थितः । तस्मि - I नेव दिने उद्यानिकायां गतया मगवसुन्दरीविलासिन्या श्रीकीर्तिश्रेष्ठिन्याः 'परिहितो दिव्यो हारो दृष्टः । ततस्तं दृष्ट्वा किमनेनालङ्कारेण विना जीवितेनेति । -संचिन्त्य शय्यायां पतित्वा सा स्थिता । रात्रौ समागतेन तदासक्तेन विद्यु १८ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy