________________
रत्नकरण्डकश्रावकाचारे
निर्विचिकित्सिते उद्दायनो दृष्टांतोऽस्य कथा ।
एकदा सौधर्मेन्द्रेण निजसभायां सम्यक्त्वगुणं व्यावर्णयता भरते वत्सदेशे रौरकपुरे उद्दायनमहाराजस्य निर्विचिकित्सितगुणः प्रशंसितस्तं परीक्षितुं वासवदेव उदुंबरकुष्ठकुथितं मुनिरूपं विकृत्य तस्यैव हस्तेन विधिना स्थित्वा सर्वमाहारं जलं च मायया भक्षयित्वातिदुर्गंधं बहुवमनं कृतवान् । दुर्गंधभयान्नष्टे परिजने प्रतीच्छतो राज्ञस्तद्देव्याश्च प्रभावत्या उपरि छर्दितं, हाहा ! विरुद्ध आहारो दत्तो मयेत्यात्मानं निंदयतस्तं च प्रक्षालयतो मायां परिहृत्य प्रकटीकृत्य पूर्ववृत्तान्तं कथयित्वा प्रशस्य च तं, स्वर्ग गतः । उद्दायनमहाराजो वर्धमानस्वामिपादमूले तपोगृहीत्वा मुक्तिं गतः। प्रभावती च तपसा ब्रह्मस्वर्गे देवो बभूव । अमूढदृष्टित्वेरेवती दृष्टान्तोऽस्य कथा |
१६
विजयार्धदक्षिणश्रेण्यां मेघकूटे नगरे राजा चन्द्रप्रभः । चन्द्रशेखरपुत्राय राज्यं दत्वा परोपकारार्थं वन्दनाभक्त्यर्थं च कियतीर्वैद्या दधानो दक्षिणमथुरायां गत्वा गुप्ताचार्यसमीपे झुलको जातः । तेनैकदा वन्दनाभक्त्यर्थमुत्तरमथुरायां चलितेन गुप्ताचार्यः पृष्टः किं कस्य कथ्यते ? भगवतोक्तं सुत्रतमुनेर्वन्दना वरुणराजमहाराज्ञीरेवत्या आशीर्वादश्च कथनीयः त्रिपृष्टेनापि तेन एतावदेवोक्तं । ततः क्षुल्लके - नोक्तं । भव्यसेनाचार्यस्यैकादशांगधारिणोऽन्येषां नामापि भगवन् न गृह्णाति तत्र किंचित्कारणं भविष्यतीति सम्प्रधार्य तत्र गत्वा सुत्रतमुनेर्भट्टारकीयां वन्दनां कथयित्वा तदीयं च विशिष्टं वात्सल्यं दृष्ट्टा भव्यसेनवसतिकां गतः । तत्र गतस्य च भव्यसेनेन संभाषणमपि न कृतं कुण्डिकां गृहीत्वा, भव्य सेनेन सह बहिर्भूमिं गत्वा विकुर्वणया हरित कोमल तृणांकुरच्छन्नो मार्गोऽग्रे दर्शितः । तं दृष्ट्ा " आगमे किलैते
१ कच्छदेशे क, ग. २ ‘कथते ख. ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org