________________
प्रथमः परिच्छेदः ।
संचित्य भार्यां गृहे धृत्वा शीघ्रमागत्य विलपंती तेन सा नीता । आकाशे गच्छता भार्यौ दृष्ट्वा भीतेन पर्णलघुविद्या: समर्प्य महाटव्यां मुक्ता । तत्र च तां रुदन्तीमालोक्य भीमनाम्ना भिल्लराजेन निजपल्लि - कायां नीत्वा प्रधानराज्ञीपदं तव ददामिमामिच्छेति भणित्वा रात्रावनिच्छतीं भोक्तुमारब्धा । व्रतमाहात्म्येन वनदेवतया तस्य ताडनाद्युपसर्गः कृतः । देवता काचिदियमिति भीतेन तेनावासितसार्थपुष्पकनाम्नः सार्थवाहस्य समर्पिता । सार्थवाहो लोभं दर्शयित्वा परिणेतुकामो न तया वाञ्छितः । तेन चानीयायोध्याया कामसेनाकुट्टिन्याः समर्पिता, कथमपि वेश्या न जाता । ततस्तया सिंहराजस्य राज्ञो दर्शिता तेन च रात्रौ हठात् सेवितुमारब्धा । नगरदेवतया तद्रतमाहात्म्येन - तस्योपसर्गः कृतः । तेन च भीतेन गृहान्निः सारिता । रुदती सखेदं सा कमलश्रीक्षांतिकया श्राविकेति मत्वाऽतिगौरवेण धृता । अथानंतमतीशोकविस्मरणार्थं प्रियदत्तश्रेष्ठी बहुसहायो वंदनाभक्तिं कुर्वन्नयोध्यायां गतो निजस्यालकाजिनदत्तश्रेष्ठिनो गृहे संध्यासमये प्रविष्टो रात्रौ पुत्रीहरणवार्ता कथितवान् । प्रभाते तस्मिन् वंदनाभक्तिं कर्तुं गते अतिगौरवितप्राघूर्ण - कनिमित्तं रसवतीं कर्तुं गृहे चतुष्कं दातुं कुशला कमलश्रीक्षांतिका श्राविका जिनदत्तभार्यया आकारिता । सा च सर्वं कृत्वा वसतिका गता । वंदनाभाक्तं कृत्वा आगतेन प्रियदत्तश्रेष्ठिना चतुष्कमालोक्यानंतमतीं स्मृत्वा गह्वरितहृदयेन गद्गदितवचनेनाश्रुपातं कुर्वता भणितं । यया गृहमंडनं कृतं तां मे दर्शयेति । ततः सा आनीता तयोश्च मेलापके जाते जिनदत्तश्रेष्ठिना च महोत्सवः कृतः । अनंतमत्या चोक्तः तात ! इदानीं मे तपो दापय दृष्टमेकस्मिन्नेव भवे संसारवैचित्र्यमिति । ततः कमलश्रीक्षांतिकापार्श्वे तपो गृहीत्वा बहुना कालेन विधिना मृत्वा तदात्मा सहस्रारकल्पे देवो जातः ॥ २ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org