________________
रत्नकरण्डकश्रावकाचारे
तमना वारंवारं चटनोत्तरणं करोति । एतस्मिन् प्रस्तावे प्रजापालराज्ञः कनकराज्ञीहारं दृष्टांजनसुंदर्या विलासिन्या रात्रावागतोंजनचोरो भणितः । यदि मे कनकराझ्या हारं ददासि तदा भर्ती त्वं नान्यथेति । ततो गत्वा रात्रौ हार चोरयित्वांऽजनचोर आगच्छन् हारोद्योतेन ज्ञातोऽगरक्षैः कोट्टपालैश्च ध्रियमाणो हारं त्यक्त्वा प्रणश्य गतः, वटंतले वटुकं दृष्टा तस्मान्मत्रं गृहीत्वा निःशंकितेन तेन विधिनैकवारेण सर्वशिक्यं छिन्नं शस्त्रोपरि पतितः सिद्धया विद्यया भणितं ममादेशं देहीति । तेनोक्तं जिनदत्तश्रेष्ठिपार्श्वे मां नयेति । ततः सुदर्शनमेरुचैत्यालये जिनदत्तस्याने नीत्वा स्थितः। पूर्ववृत्तांतं कथयित्वा तेन भणितं यथेयं सिद्धा भवदुपदेशेन तथा परलोकसिद्धावप्युपदेहीति । ततश्चारणमुनिसन्निधौ तपो गृहीत्वा कैलाशे केवलमुत्पाद्य मोक्षं गतः ॥ १॥
निःकांक्षितत्त्वेऽनंतमतीदृष्टांतोऽस्याः कथा। __ अंगदेशे चंपानग- राजा वसुवर्धनो राज्ञी लक्ष्मीमती । श्रेष्ठी प्रियदत्तस्तद्भार्या अंगवती पुत्र्यनंतमती । नंदीश्वराष्टम्यां श्रेष्ठिना धर्मकीर्त्याचार्यपादमूलेऽष्टदिनानि ब्रह्मचर्यं गृहीतं । क्रीडयाऽनंतमती च ग्राहिता । अन्यदा संप्रदानकालेऽनंतमत्योक्तं तात ! मम त्वया ब्रह्मचर्य दापितमतः किं विवाहेन ? श्रेष्ठिनोक्तं क्रीडया मया ते ब्रह्मचर्य दापितं । ननु तात ! धर्मे व्रते का क्रीडा । ननु पुत्रि! नंदीश्वराष्टदिनान्येव व्रतं तव न सर्वदा दत्तं । सोवाच ननु तथा भट्टारकैरविवक्षितत्वादिति । इह जन्मनि परिणयने मम निवृत्तिरस्तीत्युक्त्वा सकलकलाविज्ञानशिक्षां कुर्वती स्थिता यौवनभरे चैत्रे निजोद्याने आंदोलयंती विजयार्धदक्षिणश्रेणिकिन्नरपुरविद्याधरराजेन कुंडलमंडितनाम्ना सुकेशीनिजभार्यया सह गगनतले गच्छता दृष्टा । किमनया विना जीवितेनेति
१ गृहीष्यमाणः इति पाठान्तरम् । २ धृत इत्यन्यत्र ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org