SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः । . विष्णुश्च विष्णुकुमारो वज्रनामा च वज्रकुमारः शेषयोर्वात्सल्यप्रभावनयो र्लक्ष्यतां गतौ मतौ । गता इति बहुवचननिर्देशो दृष्टान्तभूतोक्तात्मव्यक्ति-बहुत्वापेक्षया । १३. तत्र निःशंकितत्वें जनचोरो दृष्टान्ततां गतोऽस्य कथां । यथा धन्वंतरिविश्वलोमौ सुकृतकर्मवशादमितप्रभविद्युत्प्रभदेवौ संजातौ चान्योन्यस्य धर्मपरीक्षणार्थमत्रायातौ । ततो यमदग्निस्ताभ्यां तपसश्चालितः । मैगधदेशे राजगृहनगरे जिनदत्तश्रेष्टी कृतोपवासः कृष्णचतुर्द-श्यां रात्रौ स्मशाने कायोत्सर्गेण स्थितो दृष्टः । ततोऽमितप्रभदेवेनोक्तं दूरे तिष्ठंतु मदीया मुनयोऽमुं गृहस्थं ध्यानाच्चालयेति, ततो विद्युत्प्रभदेवेनानेकधा कृतोपसर्गोपि न चलितो ध्यानात् । ततः प्रभाते मायामुपसं-हृत्य प्रशस्य चाकाशगामिनी विद्या दत्ता । तस्मै कथितं च तवेयं सिद्धाऽ न्यस्य च पंचनमस्कारार्चनाराधनविधिना सेत्स्यतीति । सोमदत्तपुष्पवटुकेन चैकदा जिनदत्तश्रेष्ठी पृष्टः क भवान् प्रातरेवोत्थाय व्रजतीति । तेनोक्तमकृत्रिमचैत्यालय वंदनाभक्ति कर्तुं व्रजामि । ममेत्थं विद्यालाभः संजात इति कथिते तेनोक्तं मम विद्यां देहि येन त्वया सह पुष्पादिकं गृहीत्वा वंदनाभक्ति करोमीति । ततः श्रेष्ठिना तस्योपदेशो दत्तः । तेन च कृष्णचतुर्दश्यां श्मशाने वटवृक्षपूर्वशाखायामष्टोत्तरशतपादं दर्भशिक्यंबन्धयित्वा तस्य तले तीक्ष्णसर्वशस्त्राण्यूर्ध्वमुखानि धृत्वा गंधपुष्पादिकं दत्त्वा शिक्यमध्ये प्रविश्य षष्ठोपवासेन पंचनमस्कारानुच्चार्य छुरिकयैकैकं पादं छिंदताऽधो जाज्वल्यमानप्रहरणसमूहमालोक्य भीतेन तेन संचितितं यदि श्रेष्ठिनो वचनमसत्यं भवति तदा मरणं भवतीति शंकि- १कथेयमस्मत्सुहृद्वर्यश्रीवासुदेव पंडितैः स्वहस्तेनोल्लिखिते पुस्तके सुमहद्रूपेण वर्तते । २ अङ्गदेशे इति ग । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy