SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ १२ रत्नकरण्डकश्रावकाचारे --- अथ प्रभावनागुणस्वरूपं दर्शनस्य निरूपयन्नाह :अज्ञानतिमिरव्याप्तिमपाकृत्य यथायथम् । जिनशासनमाहात्म्यप्रकाशः स्यात्प्रभावना ॥ १८ ॥ 'प्रभावना' स्यात् । कासौ ? 'जिनशासनमाहात्म्यप्रकाशः ' । * जिनशासनस्य माहात्म्य प्रकाशस्तु तपोज्ञानाद्यतिशयप्रकटीकरणं । कथं ? • यथायथं ' स्नपनदानपूजाविधानतपोमंत्रतंत्रादिविषये आत्मशक्त्यनति - क्रमेण । किं कृत्वा अपाकृत्य ' निराकृत्य । कां ? ' अज्ञानतिमिरव्याप्तिं ' * जिनमतात्परेषां यत्स्नपनदानादिविषयेऽज्ञानमेव तिमिरमन्धकारं तस्य व्याप्ति * प्रसरम् ॥ १८ ॥ 6 इदानीमुक्तनिःशंकितत्वाद्यष्टांगानां मध्ये कः केन गुणेन प्रधानतया प्रकटित इति प्रदर्शयन् श्लोकद्वयमाह ; तावदञ्जनचौरोऽङ्गे ततोऽनन्तमतिः स्मृता । उद्दायनस्तृतीयेऽपि तुरीये रेवती मता ॥ १९ ॥ ततो जिनेन्द्रभक्तोऽन्यो वारिषेणस्ततः परः । विष्णुश्च वज्रनामा च शेषयोर्लक्ष्यतां गताः ॥ २० ॥ तावच्छब्दः क्रमवाची, सम्यग्दर्शनस्य हि निःशंकितत्वादीन्यष्टांगान्युतानि तेषु मध्ये प्रथमे निःशंकितत्वें ऽगस्वरूपे तावल्लक्ष्यतां दृष्टान्ततां गतोSञ्ज चोरः स्मृतो निश्चितः । द्वितीयेंगे निष्कांक्षितत्वे ततोऽञ्जन चोरादन्यानन्तमतिर्लक्ष्यतां गता मता । तृतीयेंगे निर्विचिकित्सत्वे उद्दायनो लक्ष्यतां गतो मतः । तुरीये चतुर्थेऽङ्गे अमूढदृष्टित्वे रेवती लक्ष्यतां गता मता । ततस्तेभ्यश्चतुर्थेभ्योऽन्यो जिनेन्द्रभक्त श्रेष्ठी उपगूहने लक्ष्यतां गतो मतः । ततो जिनेन्द्रभक्तात् परो वारिषेणः स्थितीकरणे लक्ष्यतां गतो मतः । १ सम्पादनादिलक्षणा ख । २ पुष्पमध्यगतः पाठ क - पुस्तके नास्ति । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy