________________
- प्रथमः परिच्छेदः ।
तदुपगृहनं वदन्ति यत्प्रमार्जन्ति निराकुर्वन्ति प्रच्छादयन्तीत्यर्थः । कां ? 'वाच्यतां' दोषं । कस्य ? 'मार्गस्य' रत्नत्रयलक्षणस्य । किंविशिष्टस्य ? 'स्वयं शुद्धस्य' स्वभावतो निर्मलस्य । कथंभूतां ? 'बालाशक्तजनाश्रयां' बालोऽज्ञः, अशक्तो व्रताद्यनुष्ठानेऽसमर्थः स चासौ जनश्च स आश्रयो यस्याः । अयमर्थः-हिताहितविवेकविकलं व्रताद्यनुष्ठानेऽसमर्थजनमाश्रित्यागतस्य रत्नत्रये तद्वति वा दोषस्य यत् प्रच्छादनं तदुपगृहनमिति ॥ १५॥ अथ स्थितीकरणगुणं सम्यग्दर्शनस्य दर्शयन्नाह;
दर्शनाचरणाद्वापि चलतां धर्मवत्सलैः।
प्रत्यवस्थापनं प्राज्ञैः स्थितीकरणमुच्यते ॥ १६ ॥ 'स्थितीकरण' अस्थितस्य दर्शनादेश्चलितस्य स्थितं करणं स्थितीकरणमुच्यते । कैः ? प्रास्तद्विचक्षणैः । किं तत् ? 'प्रत्यवस्थापन' दर्शनादौ पूर्ववत् पुनरप्यवस्थापनं । केषां ? 'चलतां' । कस्मात् ? दर्शनाच्चरणाद्वापि । कैस्तेषां प्रत्यवस्थापनं ? 'धर्मवत्सलैः' धर्मवात्सल्ययुक्तैः ॥ १६ ॥
अथ वात्सल्यगुणस्वरूपं दर्शने प्रकटयन्नाह;: स्वयथ्यान्प्रति सद्भावसनाथापेतकैतवा ।
प्रतिपत्तिर्यथायोग्यं वात्सल्यमभिलप्यते ॥ १७ ॥
वात्सल्यं ' सधर्मिणि स्नेहः । 'अभिलप्यते ' प्रतिपाद्यते । कासौ ? ' प्रतिपत्तिः ' पूजाप्रशंसादिरूपा । कथं ? ' यथायोग्यं , योग्यानतिक्रमेण अञ्जलिकरणाभिमुखगमनप्रशंसावचनोपकरणसम्प्रदानादिलक्षणा । कान् प्रति ? ' स्वयूथ्यान् । जैनान् प्रति । कथंभूता ? 'सद्भावसनाथा ' सद्भावेनावक्रतया सहिता चित्तपूर्विकेत्यर्थः । अत एव 'अपेतकैतवा ' अपेतं विनष्टं कैतवं माया यस्याः ॥ १७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org