________________
रत्नकरण्डकश्रावकाचारेसम्प्रति निर्विचिकित्सागुणं सम्यग्दर्शनस्य प्ररूपयन्नाह;स्वभावतोऽशुचौ काये रत्नत्रयपवित्रिते। . निर्जुगुप्सा गुणप्रीतिर्मता निर्विचिकित्सता ॥ १३ ॥ 'निर्विचिकित्सता मता' अभ्युपगता । कासौ ? ' निर्जुगुप्सा' विचिकित्स.भावः । क ? काये । किंविशिष्टे ? ' स्वभावतोऽशुचौ ' स्वरूपेणापवित्रिते। इत्थंभूतेऽपि काये ' रत्नत्रयपवित्रिते । रत्नत्रयेण पवित्रिते पूज्यतां नीते । कुतस्तथाभूते निर्जुगुप्सा भवतीत्याह- गुणप्रीति: ' यतो गुणेन रत्नत्रयाधारभूतमुक्तिसाधकलक्षणेन प्रीतिर्मनुष्यशरीरमेवेदं मोक्षसाधकं नान्यदेवादिशरीरमित्यनुरागः । ततस्तत्र निर्जुगुप्सेति ॥ १३ ॥
अधुना सद्दर्शनस्यामूढदृष्टित्वगुणं प्रकाशयन्नाहःकापथे पथि दुःखानां कापथस्थेऽप्यसम्मतिः ।
असंपृक्तिरनुत्कीर्तिरमूढा दृष्टिरुच्यते ॥ १४ ॥ अमूढा दृष्टिरमूढत्वगुणविशिष्टं सम्यग्दर्शनं । का ? ' असम्मतिः । न विद्यते मनसा सम्मतिः श्रेयः साधनतया सम्मननं यत्र दृष्टौ । क ? 'कापथे' कुत्सितमार्गे मिथ्यादर्शनादौ । कथंभूते ? ' पथि ' मार्गे । केषां ? 'दुःखानां'। न केवलं तत्रैवासम्मतिरपि तु 'कापथस्थेऽपि' मिथ्यादर्शनाद्याधारेऽपि जीवे । तथा 'असंपृक्तिः' न विद्यते सम्पृक्तिः कायेन नखच्छोटिकादिना प्रशंसा यत्र । 'अनुत्कीर्तिः' न विद्यते उत्कीर्तिरुत्कीर्तनं वाचा संस्तवनं यत्र । मनोवाक्कायमिथ्यादर्शनादीनां तद्वतां चाप्रशंसाकरणममूढं सम्यग्दर्शनमित्यर्थः ॥ १४ ॥ अथोपगृहनगुणं तस्य प्रतिपादयन्नाह;
स्वयं शुद्धस्य मार्गस्य बालाशक्तजनाश्रयाम् । वाच्यतां यत्प्रमाजेन्ति तद्वदन्त्युपगृहनम् ॥ १५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org