SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ .. प्रथमः परिच्छेदः। www तपांस्येव रत्नानि यस्य एतद्गुणविशिष्टो यः स तपस्वी गुरुः 'प्रशस्यते' श्लाध्यते ॥ १० ॥ ___ इदानीमुक्तलक्षणदेवागमगुरुविषयस्य सम्यग्दर्शनस्य निःशंकितत्वगुणस्वरूपं प्ररूपयन्नाहा-- . इदमेवेदृशमेव तत्त्वं नान्यन्न चान्यथा। ..इत्यकम्पायसाम्भोवत्सन्मार्गेऽसंशया रुचिः ॥११॥ ___ 'रुचिः ' सम्यग्दर्शनं । ' असंशया ' निःशंकितत्वधर्मोपेता । किं विशिष्टा सती ? 'अकम्पा' निश्चला । किंवत् ? 'आयसाम्भोवत्' अयसि भवमायसं तच्च तदम्भश्च पानीयं तदिव तद्वत् खङ्गादिगतपानीयवदित्यर्थः । क साकम्पेत्याह- सन्मार्गे' संसारसमुद्रोत्तरणार्थ सद्भिर्मुग्यते अन्वेष्यत इति सन्मार्ग आप्तागमगुरुप्रवाहस्तस्मिन् । केनोलेखेनेत्याह' इदमेवेत्यादि ' इदमेवाप्तागमतपस्विलक्षणं तत्त्वं । ' ईदृशमेव ' उक्त प्रकारेणैव लक्षणेन लक्षितं । 'नान्यत् ' एतस्माद्भिन्नं न । 'न चान्यथा' उक्ततल्लक्षणादन्यथा परपरिकल्पितलक्षणेन लक्षितं, 'न च' नैव तद्घटते इत्येवमुल्लेखेन ॥ ११॥ इदानीं निष्कांक्षितत्वगुणं सम्यग्दर्शने दर्शयन्नाह;कर्मपरवशे सान्ते दुःखैरन्तरितोदये । पापबीजे सुखेऽनास्था श्रद्धानाकाडक्षणा स्मृता ॥१२॥ 'अनाकांक्षणा स्मृता ' निष्कांक्षितत्वं निश्चितं । कासौ ? 'श्रद्धा' । कथंभूता ? ' अनास्था ' न विद्यते आस्था शाश्वतबुद्धिर्यस्यां । न आस्था अनास्था । तस्यां तया वा श्रद्धा अनास्थाश्रद्धा सा चाप्यनाकांक्षणेति स्मृता । क अनास्थाऽरुचिः ? 'सुखे ' वैषयिके । कथंभूते ? ' कर्मपरवशे' कर्मायत्ते। तथा ' सान्ते ' अन्तेन विनाशेन सह वर्तमाने । तथा . 'दुःखैरन्तरितोदये ' दुःखैर्मानसशारीरैरन्तरित उदयः प्रादुर्भावो यस्य । तथा ' पापबीजे' पापोत्पत्तिकारणे ॥ १२ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy