________________
रत्नकरण्ड श्रावकाचारे
त्मार्थं किंचिदपेक्षते नैवापेक्षते । अयमर्थः यथा मुरजः परोपकारार्थमेव विचित्रान् शब्दान् करोति तथा सर्वज्ञः शास्त्रप्रणयनमिति ॥ ८ ॥ कीदृशं तच्छास्त्रं यत्तेन प्रणीतमित्याहःआंप्तोपज्ञमनुल्लंघ्यमदृष्टेष्टविरोधकम् । तत्त्वोपदेशकृत्सार्वं शास्त्रं कापथघट्टनम् ॥ ९ ॥
' आप्तोपनं ' सर्वज्ञस्य प्रथमोक्तिः । अनुलंध्यं यस्मात्तदाप्तोप तस्मादिन्द्रादीनामनुल्लंघ्यमादेयं । कस्मात् ? तदुपज्ञत्वेन तेषामनुलुंध्यं यतः । ‘अदृष्टेष्टविरोधकं’— दृष्टं प्रत्यक्षं, इष्टमनुमानादि, न विद्यते दृष्टे - ष्टाभ्यां विरोधो यस्य । तथाविधमपि कुतस्तत्सिद्धमित्याह - ' तत्त्वोपदेशकृत् ' यतस्तस्य सप्तविधस्य जीवादिवस्तुनो यथावत्स्थितस्वरूपस्य वा उपदेशकृत् यथावत्प्रतिदेशकं ततो दृष्टेष्टाविरोधकं । एवंविधमपि कस्मादवगतं ? यतः ‘सार्वे' सर्वेभ्यो हितं सार्वमुच्यते तत्कथं यथावत्तत्स्वरूपप्ररूपणमन्तरेण घटेत । एतदप्यस्य कुतो निश्चितमित्याह - ' कापथघट्टनं ' यतः कापथस्य कुत्सितमार्गस्य मिथ्यादर्शनादेर्घट्टनं निराकारकं सर्वज्ञप्रणीतं शास्त्रं ततस्तत्सार्वमिति ॥ ९ ॥
अथेदानीं श्रद्धानगोचरस्य तपोभृतः स्वरूपं प्ररूपयन्नाह ;विषयाशावशातीतो निरारम्भोऽपरिग्रहः । ज्ञानध्यानतपोरत्नस्तपस्वी स प्रशस्यते || १० ||
5
विषयेषु स्रग्वनितादिष्वाशा आकांक्षा तस्या वशमधीनता । तदतीतो विषयाकांक्षारहितः । ' निरारम्भः ' परित्यक्तकृष्यादिव्यापारः । ' अपरिग्रहो ' बाह्याभ्यन्तरपरिग्रहरहित: । ' ज्ञानध्यानतपोरत्न: ' ज्ञानध्यान
१ सिद्धसेन - दिवाकरस्य न्यायावतारेपि नवम एवायं श्लोकः । २ तस्मादितरवादिना ख । ३ प्रतिपादकं ख । ४ राकरणकारणं ख । ५ ' ज्ञानध्यानतपोरक्त ' इत्यपि प्रसिद्धः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org