________________
प्रथमः परिच्छेदः ।
परमेष्ठी परंज्योतिर्विरागो विमलः कृती । सर्वज्ञोऽनादिमध्यान्तः सार्वः शास्तोपलाल्यते ॥ ७ ॥
परमे इन्द्रादीनां वन्द्ये पदे तिष्ठतीति 'परमेष्ठी' । परं निरावरणं परमातिशयप्राप्तं ज्योतिर्ज्ञानं यस्यासौ । 'विरागो' विगतो रागो भावकर्म यस्य । 'विमलो' विनष्टोमलो द्रव्यरूपो मूलोत्तरकर्मप्रकृतिप्रपंचो यस्य । 'कृती' निःशेषहेयोपादेयतत्त्वे विवेकसम्पन्नः । 'सर्वज्ञो' यथावन्निखिलार्थसाक्षात्कारी । ' अनादिमध्यान्तः ' उक्तस्वरूपाप्तप्रवाहापेक्षया आदिमध्यान्तशून्यः । ' सार्वः ' इहपरलोकोपकारकमार्ग प्रदर्शकत्वेन सर्वेभ्यो हितः । " शास्ता ' पूर्वापरविरोधादिदोषपरिहारेणाखिलार्थानां यथावत्स्वरूपोपदेशकः । एतैः शब्दैरुक्तस्वरूप आप्त 'उपळाल्यते' प्रतिपाद्यते ||७||
सम्यग्दर्शनविषयभूताप्तस्वरूपमभिधायेदानीं तद्विषयभूतागम
स्वरूपमभिधातुमाहः-.
अनात्मार्थं विना रागैः शास्ता शास्ति सतो हितम् । ध्वनन् शिल्पिकरस्पर्शान्मुरजः किमपेक्षते ॥ ८ ॥
'शास्ता' आप्तः । ‘शास्ति' शिक्षयति । कान् ? ' सतः' आवपर्य - स्तादित्वेन समीचीनान् भव्यान् । किं शास्ति ? 'हितं' स्वर्गादितत्साधनं च सम्यग्दर्शनादिकं । किमात्मनः किंचित् फलमभिलषन्नसौ शास्ती - त्याह – 'अनात्मार्थ' न विद्यते आत्मनोऽर्थः प्रयोजनं यस्मिन् शासनकर्माणि परोपकारार्थमेवासौ तान् शास्ति । " परोपकाराय सतां हि चेष्टितं " इत्यभिधानात् । स तथा शास्तीत्येतत् कुतोवगतामित्याह - .' विना रागैः' यतो लाभपूजाख्यात्यभिलाषलक्षणपरै रागैर्विना शास्ति ततो नात्मार्थं शास्तीत्यवसीयते । अस्यैवार्थस्य समर्थनार्थमाह-ध्वनन्नित्यादि । शिल्पिकरस्पर्शाद्वादककर। भिघातान्मुरजो मर्दलो ध्वनन् किमा -
—
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org