________________
रत्नकरण्डकश्रावकाचार
मोहनीयकर्मसहायस्यैव वेदनीयस्य बुभुक्षोत्पादने सामर्थ्यात् । भोक्तुमिच्छा बुभुक्षा सा मोहनीयकर्मकार्यत्वात् कथं प्रक्षीणमोहे भगवति स्यात् ? अन्यथा . रिरंसाया अपि तत्र प्रसंगात् कमनीयकामिन्यादिसेवाप्रसक्तेरीश्वरादेस्तस्याविशेषाद्वीतरागता न स्यात् । विपक्षभावनावशाद्रागादीनां हान्यतिशयदर्शनात् केवलिनि तत्परमप्रकर्षप्रसिद्धीतरागतासंभवे भोजनाभावपरमप्रकर्षोऽपि तत्र किं न स्यात् तद्भावनातो भोजनादावपि हान्यतिशयदर्शनाविशेषात् । तथा हि—एकस्मिन् दिने योऽनेकवारान् भुक्ते, कदात् विपक्षभावनावशात् स एव पुनरेकवारं भुंक्ते । कश्चित् पुनरेकदिनाद्यन्तरितभोजनः, अन्यः पुनः पक्षमाससंवत्सराद्यन्तरितभोजन इति । कि च-बुभुक्षापीडानिवृत्तिभॊजनरसास्वादनाद्भवेत् तदास्वादनं चास्य रसनेन्द्रियात् केवलज्ञानाद्वा ? रसनेन्द्रियान्चेत् मतिज्ञानप्रसंगात् केवलज्ञानाभावः स्यात् । केवलज्ञानाञ्चेत् किं भोजनेन ? दूरस्थस्यापि त्रैलोक्योदरवतिनो रसस्य परिस्फुटं तेनानुभवसंभवात् । कथं चास्य केवलज्ञानसंभवो भुंजानस्य श्रेणीतः पतितत्वेन प्रमत्तगुणस्थानवर्तित्वात् । अप्रेमत्तो हि साधुराहारकथामात्रेणापि प्रमत्तो भवति नार्हन्भुजानोऽपीति महच्चित्रं । अस्तु तावज्ज्ञानसंभवः तथाप्यसौ केवलज्ञानेन पिशिताद्यशुद्धद्रव्याणि पश्यन् कथं भुंजीत अन्तरायप्रसंगात् । गृहस्था अप्यल्पसत्वांस्तानि पश्यन्तोऽन्तरायं कुर्वन्ति किं पुनर्भगवाननन्तवीर्यस्तन्न कुर्यात् । तदकरणे वा तस्य तेभ्योऽपि हीनसत्त्वप्रसंगात् । क्षुत्पीडासंभवे चास्य कथमनन्तसौख्यं स्यात् यतोऽनन्तचतुष्टयस्वामितास्य । न हि सान्तरायस्यानन्तता युक्ता ज्ञानवत् । न च बुभुक्षा पीडैव न भवतीत्यभिधातव्यं “क्षुधासमा नास्ति शरीरवेदना " इत्यभिधानात्। तदलमतिप्रसंगेन प्रमेयकमलमार्तण्डे न्यायकुमुदचन्द्रे प्रपञ्चतः प्ररूपणात् ॥ ६ ॥ ___ अथोक्तदोषैर्विवर्जितस्याप्तस्य वाचिका नाममालां प्ररूपयन्नाह;
१ अप्रमत्तोऽपि ख । २ सत्त्वानि ख ग । ३ हीनत्व ख।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org