SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः। दिदर्पः । रागद्वेषमोहाः प्रसिद्धाः । चशब्दाञ्चिन्तारतिनिद्राविस्मयमंदस्वेदखेदा गृह्यन्ते । एतेऽष्टादशदोषा यस्य न सन्ति स आप्तः 'प्रकीर्त्यते' प्रतिपाद्यते। ननु चाप्तस्य भवेत् क्षुत् , क्षुदभावे आहारादौ प्रवृत्त्यभावादेहस्थितिर्नस्यात् । अस्ति चासौ, तस्मादाहारसिद्धिः । तथा हि । भगवतो देहस्थितिराहारपूर्विका, देहस्थितित्वादस्मदादिदेहस्थितिवत्। जैनेनोच्यतेअत्र किमाहारमात्रं साध्यते कवलाहारो वा ? प्रथमपक्षे सिद्धसाधनता आसयोगकेवलिन आहारिणो जीवा इत्यागमाभ्युपगमात् । द्वितीयपक्षे तु देवदेहस्थित्या व्यभिचारः। देवानां सर्वदा कवलाहाराभावेऽप्यस्याः संभवात्। अथ मानसाहारास्तेषां तत्रस्थितिस्तैर्हि केवलिनां कर्मनोकर्माहारात् सास्तु । अथ मनुष्यदेहस्थितित्वादस्मदादिवत्सा तत्पूर्विका इष्यते तर्हि तद्वदेव तदेहे सर्वदा निःस्वेदत्वाद्यभावःस्यात् । अस्मदादावनुपलब्धस्यापि तदतिशयस्य तत्र संभवे भुक्त्यभावलक्षणोऽप्यतिशयःकिं न स्यात् । किं च अस्मदादौ दृष्टस्य धर्मस्य भगवति सम्प्रसाधने तज्ज्ञानस्येन्द्रियजेनितत्वप्रसंगः (स्यात् ) तथा हि-भगवतो ज्ञानमिन्द्रियजं ज्ञानत्वात् अस्मदादिज्ञानवत् । अतो भगवतः केवलज्ञानलक्षणातीन्द्रियज्ञानासंभवात् सर्वज्ञत्वाय दत्तो जलाञ्जलिः । ज्ञानत्वाविशेषेऽपि तज्ज्ञानस्यातीन्द्रियत्वे देहस्थितित्त्वाविशेषेऽपि तदेहस्थितेरकवलाहारपूर्वकत्वं किं न स्यात् । वेदनीयसद्भावात्तस्य बुभुक्षोत्पत्तभॊजनादौ प्रवृत्तिरित्युक्तिरनुपपन्ना १ अस्य स्थाने 'विषाद' इति पाठःख ग। २ जैनेनोच्यते ख-पुस्तके नास्ति। ३ णोकम्म कम्महारो कवलाहारो य लेप्पमाहारो। ओज मणो वि य कमसो आहारो छब्बिहो णेओ॥ णोकम्मं तित्थयरे कम्मं णारेय माणसो अमरे। . . कवलाहारो परपसु ओजो पक्खीण......॥ विग्गहगइमावण्णा केवलिणो सम्मुहदो अजोगी य। सिद्धा य अणाहारा सेसा आहारिणो जीवा ॥ ४ तर्हि इति ख ग पुस्तकयो नास्ति । .......... Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.010669
Book TitleRatnakarandaka Shravakachara
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1982
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy