________________
रत्नकरण्ड श्रावकाचारे-
I
अबाधितार्थप्रतिपादकमाप्तवचनं ह्यागमः । तच्छ्रद्धाने तेषां श्रद्धानं सिद्धमेव । किं विशिष्टानां तेषां ? 'परमार्थानां' परमार्थभूतानां न पुनर्बीद्धमत इव कल्पितानां । कथंभूतं श्रद्धानं ? 'अस्मयं' न विद्यते वक्ष्यमाणो ज्ञानदर्पाद्यष्टप्रकारः स्मयो गर्यो यस्य तत् । पुनरपि किंविशिष्टं ? 'त्रिमूढापोर्ट' त्रिभिर्मूढैर्वक्ष्यमाणलक्षणैरपोढं रहितं यत् । 'अष्टांगं' अष्टौ वक्ष्यमाणानि निःशंकित्वादीन्यंगानि स्वरूपाणि यस्य ॥ ४ ॥
तत्र सद्दर्शनविषयतयोक्तस्याप्तस्य स्वरूपं व्याचिख्यासुराहःआप्तेनोत्सन्नदोषेण सर्वज्ञेनागमेशिना ।
भवितव्यं नियोगेन नान्यथा ह्याप्तता भवेत् ॥ ५ ॥
'आप्तेन' भवितव्यं, 'नियोगेन' निश्चयेन नियमेन वा । किंविशिष्टेन ? 'उत्सन्नदोषेण' नष्टदोषेण । तथा 'सर्वज्ञेन' सर्वत्र विषयेऽशेषविशेषतः परिस्फुटपरिज्ञानवता नियोगेन भवितव्यं । तथा 'आगमेशिना' भव्यजनानां हेयोपादेयतत्त्वप्रतिपत्तिहेतुभूतागमप्रतिपादकेन नियमेन भवितव्यं । कुत एतदित्याह - 'नान्यथा ह्याप्तता भवेत् ' 'हि' यस्मात् अन्यथा उक्तविपरी - तप्रकारेण, आप्तता न भवेत् ॥ ५ ॥
अथ के पुनस्ते दोषा ये तत्रोत्सन्ना इत्याशंक्याहः
क्षुत्पिपासाजरातङ्कजन्मान्तकभयस्मयाः ।
न रागद्वेषमोहाच यस्याप्तः स प्रकीर्त्यते ॥ ६ ॥
क्षुच्च बुभुक्षा । पिपासा च तृषा । जरा च वृद्धत्वं । आतङ्कश्च व्याधिः । जन्म च कर्मवशाच्चतुर्गतिषूत्पत्तिः । अन्तकश्च मृत्युः । भयं चेहपरलोकात्राणागुप्तिमरणवेदनाऽऽकस्मिकलक्षणं । स्मयश्च जातिकुला -
१ न विद्यते स्मया वक्ष्यमाणा यत्र इत्यादि पाठःख - पुस्तके | २ कथंभूतं ख। ३ ' च्छि ' पाठान्तरं । ४ नियोगेन, ख, ग ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org