________________
प्रथमः परिच्छेदः।
निबर्हणो विनाशकस्ततो यथोक्तविशेषणविशिष्टः । अमुमेवार्थ व्युत्पत्तिद्वारेणास्य समर्थयमानः संसारेत्याद्याह संसारे चतुर्गातके दुःखानि शारीरमानसादीनि तेभ्यः 'सत्वान्' प्राणिन उद्धृत्य 'यो धरति' स्थापयति । क ? 'उत्तमे सुखे' स्वर्गापवर्गादिप्रभवे सुखे स धर्म इत्युच्यते ॥२॥ अथैवंविधधर्मस्वरूपतां कानि प्रतिपद्यन्त इत्याह;सदृष्टिज्ञानवृत्तानि धर्म धर्मेश्वरा विदुः ।
यदीयप्रत्यनीकानि भवन्ति भवपद्धतिः ॥३॥ दृष्टिश्च तत्त्वार्थश्रद्धानं, ज्ञानं च तत्त्वार्थप्रतिपत्तिः, वृत्तं चारित्रं पापक्रियानिवृत्तिलक्षणं । सन्ति समीचीनानि च तानि दृष्टिज्ञानवृत्तानि च । 'धर्म' उक्तस्वरूपं । 'विदुः वदन्ति प्रतिपादयन्ते। के ते? 'धर्मेश्वरा' रत्नत्रयलक्षणधर्मस्य ईश्वरा अनुष्ठातृत्वेन प्रतिपादकत्वेन च स्वामिनो जिननाथाः । कुतस्तान्येव धर्मो न पुनर्मिथ्यादर्शनादीन्यपीत्याह-यदीयेत्यादि । येषां सदृष्ट्यादीनां सम्बन्धीनि यदीयानि तानि च तानि प्रत्यनीकानि च प्रतिकूलानि मिथ्यादर्शनादीनि भवन्ति' सम्पद्यन्ते । का? 'भवपद्धतिः' संसारमार्गः। अयमर्थः—यतः सम्यग्दर्शनादिप्रतिपक्षभूतानि मिथ्यादर्शनादीनि संसारमार्गभूतानि । अतः सम्यग्दर्शनादीनि स्वर्गापवर्गसुखसाधकत्वाद्धर्मरूपाणि सिद्धयन्तीति ॥ ३ ॥ तत्र सम्यग्दर्शनस्वरूपं व्याख्यातुमाह
श्रद्धानं परमार्थानामाप्तागमतपोभृताम् । त्रिमूढापोढमष्टाङ्गं सम्यग्दर्शनमस्मयम् ॥ ४ ॥ सम्यग्दर्शनं भवति । किं ? 'श्रद्धानं' रुचिः । केषां ? 'आप्तागमतपोभृतां वक्ष्यमाणस्वरूपाणां । न चैवं षड्द्रव्यसप्ततत्त्वनवपदार्थानां श्रद्धानमसंगृहीतमित्याशंकनीयं औगमश्रद्धानादेव तच्छ्रद्धानसंग्रहप्रसिद्धः । १ प्रमाणैः प्रसिद्धान्यतः कारणात् ख । २ आप्तागमश्रद्धानादेव ख ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org