________________
२
रत्नकरण्डकश्श्रावकाचारे
निर्विघ्नतः शास्त्रपरिसमाप्त्यादिकं फलमभिलषन्निष्टदेवताविशेषं नमस्कु
र्वन्नाह; —
नमः श्रीवर्द्धमानाय निर्धूतकलिलात्मने । सालोकानां त्रिलोकानां यद्विद्या दर्पणायते ॥ १ ॥
1
'नमो' नमस्कारोऽस्तु । कस्मै ? ' श्रीवर्धमानाय' अन्तिमतीर्थङ्कराय तीर्थकरसमुदायाय वा । कथं ? अव - समन्तादृद्धं परमातिशयप्राप्तं मानं केवलज्ञानं यस्यासौ वर्धमानः । ' अवाप्योरल्लोपः' इत्यवशब्दाकारलोपः । श्रिया बहिरंगयाऽन्तरंगया च समवशरणानन्तचतुष्टयलक्षणयोपलक्षितो वर्धमानः श्रीवर्धमान इति व्युत्पत्तेः तस्मै कथंभूताय ? 'निर्धूतकलिलात्मने' निर्धूतं स्फोटितं कलिलं ज्ञानावरणादिरूपं पापमात्मन आत्मनां चा भव्यजीवानां येनासौ निर्धूतकलिलात्मा तस्मै । यस्य विद्या केवल - ज्ञानलक्षणा किं करोति ? ' दर्पणायते ' दर्पण इवात्मानमाचरति । केषां ? ' त्रिलोकानां ' त्रिभुवनानां । कथंभूतानां ? ' सालोकानां ' अलोकाकाशसहितानां । अयमर्थः यथा दर्पणो निजेन्द्रियागोचरस्य मुखादेः प्रकाशकस्तथा सालोकत्रिलोकानां तथाविधानां तद्विद्या प्रकाशिकेति । अत्र च पूर्वार्द्धेन भगवतः सर्वज्ञतोपायः, उत्तरार्धेन च सर्वज्ञतोक्ता ॥ १॥
अथ तन्नमस्कारकरणानन्तरं किं कर्तुं लग्नो भवानित्याह;देशयामि समीचीनं धर्मं कर्मनिबर्हणम् । संसारदुःखतः सच्त्वान् यो धरत्युत्तमे सुखे ॥ २ ॥
' देशयामि ' कथैयामि । कं ? 'धर्म' । कथंभूतं ? 'समीचीनं' अबाधितं तदनुष्ठातृणामिह परलोके चोपकारकं । कथं तं तथा निश्चितवन्तो भवन्त इत्याह' कर्मनिबर्हणं ' यतो धर्मः संसारदुःखसम्पादककर्मणां
१ उपायकर्म ग । २ प्रतिपादयामि ख ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org