________________
ति । द्विजाय गामुत्सृजति । याचकायार्थ प्रयच्छति । शिष्याय धर्ममुपादेशति । राज्ञे कार्यमावेदयति । अस्यावान्तरव्यापारा अनिराकरणम् प्रेरणम् अनुमतिश्च। तान् कुस्त्यागादौ कारकत्वं लभते । क्रियाभिमेयः खल्वपि । पत्ये शेते । श्राद्धाय निगृह्णते । युद्धाय सन्नह्यते । देवेभ्यो नमति । प्रणम्य शितिकण्ठाय निवेद्यतां महाराजाय सुग्रीवाय । अभिग्रहणादिह न भवति । ततः पृष्ठं ददाति । रजकस्य वखं ददाति । राज्ञो दण्डं ददाति । इह च भवति, वाताय चक्षुर्ददाति । छात्राय चपेटां प्रयच्छति । संपदानप्रदेशाः 'दामः संपदाने धर्म्य आत्मने च ' इसादयः॥ २५॥ स्पृहेयाप्यं वा ॥२।२।२६ ॥ स्पृहयतेोतोाप्यं वा संपदानसंज्ञं भवति। पुप्पेभ्यः पुष्पाणि वा स्पृहयति । व्याप्यमिति किम् । पुष्पेभ्यः स्पृहयति वने । आधारस्य मा भूत् । संप्रदानसंज्ञापक्षे धातोरकर्मकत्वम् । तेन पुष्पेभ्यः स्पृह्यते
मैत्रेण । पुष्पेभ्यः स्पृहयितव्यम् । पुष्पेभ्यः सुस्पृहम् । पुष्पेभ्यः स्पृहितो मैत्रः । एषु भावे आत्मनेपदतव्यखलः कर्तरि च क्तः सिद्धाः॥ २६ ॥ क्रुद्रुहेष्यासूया६ धैर्य प्रति कोपः ॥२॥२॥२७॥ अमर्षः क्रोधः । अपचिकीपी द्रोहः । ईष्या परसंपत्तौ चेतसो व्यारोपः । गुणेषु दोपाविष्करणमसूया । एतदथैर्धातुभियोगे यं प्रति
कोपस्तत्कारकं संपदानसंज्ञं भवति । मैत्राय क्रुध्यति । मैत्राय रुष्यति । मैत्राय द्रुह्यति । मैत्रायापचिकीपति । मैत्रायापकरोति । मैत्रायेयेति । मैत्रायेक्ष्यति । मैत्राय मू
यति । चैत्रायासूयति । यं प्रति इति किम् । मनसा क्रुध्यति । मनसा द्रुह्यति । मनसेष्यति । मनसाऽसूयति । करणस्य मा भूत् । प्रतिग्रहणं किम् । यस्मिन्नित्युच्य१६ माने कर्तुरपि स्यात् । मैत्रेण क्रुध्यते । कोप इति किम् । शिष्यस्य कुप्यति विनयार्थम् । धनिनो द्रुयति धनार्थी । भार्यामीप्यति मैनामन्योऽद्राक्षीदिति । चैत्रमसूयति
लिप्सया। संप्रदानसंज्ञया कर्मसंज्ञाया वाधितत्वात भावे आत्मनेपदादयः कर्तरि च क्तः सिद्धः । मैत्रायेप्यते । मैत्रायासूयते । मैत्राप्यतव्यम् । मैत्रायासूयितव्यम्। मैत्राय दुरीयम् । मैत्रायामूयितव्यम् । मैत्राय ईयितः चैत्रः । मैत्रायासूयितः । कथं चौरस्य द्विषन् , योऽस्मान् द्वेष्टि यं च वयं द्विष्म इति । द्विपरमीयर्थत्वान्न भवि
येति । तथेतिप्रत्यय श्रद्धा । अनुग्रह उपकार । आदिपदात् कीर्त्यपायाभावादिग्रहः ॥-श्राद्धाय निगहते । स्वय श्राद्ध कत्तुं यजमानेनाकारित दिजान्तर निन्दतीत्यर्थ ॥-प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम् ॥ चरणौ रक्षयन्त्वत्याञ्चूडामणिमरीचिभि' ॥१॥ अग्रेतन रामायणगद्यम् ॥ -अभिग्रहणादिति । अभिरभिमतार्थ. म आरम्भार्थ । केवलस्य हि ईयतेर्गमनं वाच्यं नाभिसंबन्धः । ततोऽभिग्रहण विशिष्टसंबन्धप्रतिपत्त्यर्थ, विशिष्टश्च सबन्ध कर्तुं श्रद्धानुग्रहापायापगमकामनाजनित स चात्र नास्तीति । प्रेय इति सूत्रे क्रियमाणे कर्मणा क्रियया व संवध्यमानो भवति स सप्रदानसज्ञ इत्युक्ते प्रत. पृष्ठ ददातीत्यत्रापि स्यात् ॥-निवेद्यतामिति । विदिए चेतनारयाने ।- रजकस्य वस्त्रं ददातीति । परिपूर्ण मूल्यमलभमानस्य रजकत्य परामुखत्वम् ॥छात्राय चपेटां प्रयच्छतीति । चपेटाया आहत' सन् छात्रो अभिमुखो भवतीति विनयपरो भवति । अनुमन्ननिराकर्तृप्रेरक त्यागकारणम् । व्याप्येनाप्त ददातेस्तु सप्रदान प्रकीर्तितम् ॥ १॥ | सप्रदानं तदेव स्यात्पूजानुग्रहकाम्यया । दीयमानेन सयोगात् स्वामित्वं लभते यदि'॥२॥- हा- शब्दशक्तिस्वाभाव्यात् ऋधिदुही अकर्मकावेव । संबन्धपष्ठयां प्राप्तायां सप्रदानम् ॥मनसा क्रुध्यतीति । नात्र मनस उपरि कोप किंतु तेन कृत्वा अन्यस्य पुरुषादे ॥-कठेरपीति । न केवल विषयसप्तम्यां व प्रति कोपस्तस्य सप्रदानत्वम् । आधारमानत्वेन कचुरपि स्यादित्यर्थ ॥-शिप्यस्य कुप्यतीति । शिप्यसबन्धिनोऽविनयस्योपरि कोपो न तु शिष्यस्य ॥-धनिनो गृह्यतीति । अन्न धनस्योपरि दोहो न तु प्राणानाम् ॥-भार्यामीयतीति । अन्येन अवलोक्यमाना न सहते । वृत्ती मैनामिति तात्पर्यार्थोऽकथि ॥-द्विषेरप्रीत्यर्थत्वादिति । अनीतिमात्रमेव विवक्षित न तु कुधादय इत्यर्थ । अत्रेदं विचार्यते-कोपाह्रोहादयो भिन्नस्वभावा व्याख्याता',