________________
१५०
स्वयं विवादग्रहिले वितण्डापाण्डित्यकण्डूलमुखे जनेऽस्मिन् ।
मायोपदेशात् परमर्मभिन्दन्
अहो ! विरक्तो मुनिरन्यदीयः ॥ १० ॥
न धर्महेतुविहितापि हिंसा नोत्सृष्टमन्यार्थमपोद्यते च । स्वपुत्रघातान्नृपतित्वलिप्सा
सब्रह्मचारिस्फुरितं परेषाम् ॥११॥ स्वार्थावबोधक्षम एव बोधः
प्रकाशते नार्थकथान्यथा तु । परे परेभ्यो भयतस्तथापि
प्रपेदिरे ज्ञानमनात्मनिष्ठम् ॥ १२ ॥ माया सती चेद् द्वयतत्त्वसिद्धिरथासती हन्त कुतः प्रपंचः ।
मायैव चेदर्थसहा च तल्कि
माता च चन्ध्या च भवत्परेषाम् || १३||
अनेकमेकात्मकमेव वाच्यं
द्वयात्मकं वाचकमप्यवश्यम् ।
अतोऽन्यथा वाचकवाच्य
Faraaraकानां प्रतिभाप्रमादः ॥ १४ ॥