________________
श्री काव्यानुशासनसूत्राणि ।
१ अकृत्रिमस्वादुपदां परमार्थाभिधायिनीम् ।
सर्वभाषापरिणतां जैनी वाचमुपास्महे ॥१॥ २ शब्दानुशासनेऽस्माभिः साध्व्यो वाचो विवेचिताः।
तासामिदानी काव्यख यथावदनुशिष्यते ॥२॥ ३ काव्यमानन्दाय यशसे कान्तातुल्यतयोपदेशाय च। ४ प्रतिभाऽस्य हेतुः। ५ सावरणक्षयोपशममात्रात्सहजा। ६ मत्रादेरौपाधिकी। ७ व्युत्पत्यभ्यासाभ्यां संस्कार्या । ८ लोकशास्त्रकाव्येषु निपुणता व्युत्पत्तिः। ९ काव्यविच्छिक्षया पुनः पुनः प्रवृत्तिरभ्यासः । १० सतोऽप्यनिवन्धोऽसतोऽपि निवन्धो नियमश्छा
याद्युपजीवनादयश्च शिक्षाः। ११ अदोषौ सगुणौ सालंकारौ च शब्दार्थों काव्यम् । १२ रसस्योत्कर्पापकर्पहेतू गुणदोषौ भत्त्या शब्दार्थयो। १३ अङ्गाश्रिता अलंकारा।