________________
२१८ . नखमुखमधिकाङ्गः संयुगः पद्मरागो,
भगयुगमथ टङ्गोद्योगशृङ्गा निदाघः । क्रकचकवचकूर्चार्चिपुच्छोञ्छकच्छाः,
व्रजमुटजनिकुञ्जौ कुञ्जभूर्जाम्बुजाश्च ॥९८॥ ध्वजमलयजकूटाः कालकूटारकूटौ,
कवटकपटखेटाः कर्पटः पिष्टलोष्टौ । नटनिकटकिरीटाः कर्बटः कुक्कुटाहौ,
कुटजकुटविटानि व्यङ्गटः कोकुष्ठौ ॥९९।। कमठो वारुण्डखण्डषण्डा,
'निगडाक्रीडनडप्रकाण्डकाण्डाः । कोदण्डतरण्डमण्डमुण्डा,
दण्डाण्डौ दृढवारबाणबाणाः ॥१०॥ कर्षापणः श्रवणपक्कणकंकणानि,
द्रोणापराह्मचरणानि तृणं सुवर्णम् । स्वर्णव्रणौ वृषणभूषणदूषणानि,
भाणस्तथा किणरणप्रवणानि चूर्णः ॥१०१॥ तोरणपूर्तनिकेतनिवाताः, पारतमन्तयुतप्रयुतानि । वेडितमक्षतदैवतवृत्तैरावतलोहितहस्तशतानि ॥१०२॥ व्रतोपवीतौ पलितो वसन्तध्वान्तायुतधूतनृतानि पुस्तः। शुद्धान्तबुस्तौ रजतो मुहूर्तद्वियूथयूथानि वरूथगूथौ ॥१०३।।