________________
२१७ कर्पूरस्वर्णयोश्चन्द्र, उडावृक्षं छदे दलः । धर्मः स्वभावे रुचको, भूषाभिन्मातुलुङ्गयोः ॥११॥ पाताले वाडवो वर्द्धः, सीसे आमलकः फले। पिटजङ्गलसत्त्वानि, पिटकामांसजन्तुषु ॥१२॥ मधुपिण्डौ सुरातन्चोर्नाम शेवालमध्ययोः । एकाद्रात्रः समाहारे, तथा सूतककूलकौ ॥९३।।
वैनीतकभ्रमरको मरको वलीक
वल्मीकवल्कपुलकाः फरकव्यलीको । किजल्ककल्कमणिकस्तवका वितक
वर्चस्कचूचुकतडाकतटाकतङ्काः ॥९॥ वालकः फलकमालकालक,
मूलकस्तिलकपङ्कपातकाः । कोरकः करककन्दुकान्दुका
ऽनीकनिष्कचषका विशेषकः ।।९५॥ शाटककण्टकटविटङ्का, मञ्चकमेचकनाकपिनाकाः । -पुस्तकमस्तकमुस्तकशाका, वर्णकमोदकमूषिकमुष्काः ॥९॥
चण्डातकश्वरकरोचककञ्चुकानि,
मस्तिप्कयावककरण्डकतण्डकानि। आतङ्कशूकसरकाः कटकः सशुल्कः, पिण्याकझर्झरकहंसकशङ्खपुराः ।।९७॥