________________
२०६
वाकोत्तरा नक्तकरलकाका, न्युह्वोत्तरा सङ्गतरङ्गरङ्गाः । परागपूगौ सृगमस्तुलुङ्गकुडङ्गकालिङ्गतमङ्गमङ्गाः ॥७॥ वेगसमुद्रावपाङ्गवर्गौ घार्घा मञ्चसपुच्छपिच्छगच्छाः । वाजौजकिलिञ्जपुञ्जमुञ्जा अवटः पट्टहठप्रकोष्ठकोष्ठाः ॥ ८ ॥ अड्गुष्ठगण्डौ लगुडप्रगण्डकरण्डकूष्माण्डगुडाः शिखण्डः । वरण्डरुण्डौ च पिचण्डनाडीव्रणौ गुणभ्रणमलक्तकुन्तौ ॥ ९ ॥ पोतः पिष्टातः पृषतश्वोत्पातवातावर्थकपर्दी | बुदबुदगदमगदो मकरन्दो, जनपदगन्धस्कन्धमगाधः ॥ १०॥ अर्धसुदर्शनदेवनमहाभिजनजनाः परिघातनफेनौ । पूपापूपौ सूपकलापौ रेफः शोफः स्तम्बनितम्बौ ॥ ११ ॥ शम्याम् पाञ्चजन्यतिष्यौ पुण्यः सिचयनिकाय्यरात्रवृत्राः | मन्त्रामित्रौ कटप्रपुण्ड्राऽऽराः कल्लोलोल्लौ च खल्लतल्लौ ॥१२॥ कण्डोलपोटगलपुद्गल कालवाला
वेला गलो जगलहिंगुलगोलफालाः । स्याद्देवलो बहुलतण्डुलपत्रपाल
वातूलतालनडुला भ्रमलो निचोलः ॥१३॥ कामलकुद्दालावयवस्वाः, सुवरौरवयावाः शिवदावौ । माधवपणवादीन वहावध्रुवकोटीशांशाः स्पशवंशौ ॥१४॥
कुशोडीशपुरोडाशवृषकुल्मासनिष्कुहाः । अहनिर्यूहकलहाः, पक्षराशिवराश्यृषिः ॥ १५ ॥