________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यविरचितं
लिङ्गानुशासनम् ।
पुंलिङ्गं कटणथपभमयरषसल्वन्तमिमनलौ किश्तिव् । ननडौ घघनौ दः किर्भावे खोऽकर्तरि च कः स्यात् ।।१।।
हस्तस्तनौष्ठनखदन्तकपोलगुल्फ__ केशाध्युगुच्छदिनसर्तुपतद्ग्रहाणाम् । निर्यासनाकरसकण्ठकुठारकोष्ठ
हैमारिवर्षविषबोलरथाशनीनाम् ॥२॥ श्वेतप्लवात्ममुरजासिकफाभ्रपङ्क
मन्थत्विषां जलधिशेवधिदेहभाजाम् । मानद्रुमाद्रिविषयाशुगशोणमास
धान्याध्वराग्निमरुतां समिदां तु नाम ॥३॥ वोऽच्छदेऽहिर्वप्रे ब्रीहन्योर्हायनवर्हिषौ । मस्तुः सक्तौ स्फटिकेऽच्छो, नीलमित्रौ मणीनयोः ॥४॥ कोणेऽस्त्रश्चषके कोशस्तलस्तालचपेटयोः । अनातोये घनो भूम्नि, दारप्राणासुवल्वजाः ॥५॥ कान्तश्चन्द्रार्कनामायःपरो यानार्थतो युगः । यश्च स्यादसमाहारे, द्वन्द्वोऽश्वक्डवाविति ॥६॥