________________
२०४
यस्य येनाभिसम्बन्धो दूरस्थस्यापि तेन सः॥१२४॥ येन विना यन्न भवति तत्तस्यानिमित्तस्यापि
निमित्तम् ।।१२५॥ नामग्रहणे प्रायेणोपसर्गस्य न ग्रहणम ॥१२६।। सामान्यातिदेशे विशेषस्य नातिदेशः॥१२७॥ सर्वत्रापि विशेषेण सामान्य वाध्यते न तु सामान्येन
विशेषः ॥१२८॥ डिन्वेन कित्वं बाध्यते ॥१२९।। परादन्तरङ्ग बलीयः ॥१३०॥ प्रत्ययलोपेऽपि प्रत्ययलक्षण कार्य विज्ञायते ॥१३॥ विधिनियमयोर्विधिरेव ज्यायान् ॥१३२॥ अनन्तरस्यैव विधिनिषधो वा ॥१३३॥ पर्जन्यवल्लक्षणप्रवृत्तिः ॥१३४॥ न केवला प्रकृतिः प्रयोक्तव्या ॥१३५।। किवर्थ प्रकृतिरेवाह ॥१३६॥ द्वन्द्वात्परः प्रत्येकमभिसम्बध्यते ॥१३७॥ विचित्राः शब्दशक्तयः ॥१३८॥ किं हि वचनान्न भवति ॥१३९॥ न्यायाः स्थविरयष्टिप्रायाः॥१४॥