________________
२०३
येन धातुना युक्ताः प्रादयस्तं प्रत्येवोपसर्गसंज्ञाः ॥ यत्रोपसर्गलं न सम्भवति तत्रोपसर्गशब्देन प्रादयो लक्ष्यन्ते न तु सम्भवत्युपसर्गत्वे ॥ १०९ ॥ शीलादिप्रत्ययेषु नासरूपोत्सर्गविधिः ॥ ११० ॥ त्यादिष्वन्योऽन्यं नासरूपोत्सर्गविधिः ॥ १११ ॥ स्त्रीखलना अलो बाधकाः स्त्रियाः खलनौ ॥ ११२ ॥ यावत्सम्भवस्तावद्विधिः ॥ ११३ ॥
सम्भवे व्यभिचारे च विशेषणमर्थवत् ॥११४॥ सर्व वाक्यं सावधारणम् ।। ११५ ।।
परार्थे प्रयुज्यमानः शब्दो वतमन्तरेणापि वदर्थं गमयति ॥ ११६ ॥
द्वौ नवौ प्रकृतमर्थ गमयतः ॥११७॥ चकारो यस्मात्परस्तत्सजातीयमेव समुच्चिनोति ॥ ११८ ॥ चानुकुष्टं नानुवर्त्तते ॥ ११९ ॥
चानुकुष्टेन न यथासङ्ख्यम् ॥ १२० ॥ व्याख्यातो विशेपार्थप्रतिपत्तिः ॥ १२१ ॥ यत्रान्यत्क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयुज्यते ॥१२२॥
यदुपाधेर्विभाषा तदुपाधेः प्रतिषेधः ॥ १२३ ॥ |