SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ आकृतिग्रहणाजातिर्लिङ्गानां न च सर्वभाक् । सकृदाख्यातनिर्गाद्या गोत्रं च चरणैः सह ॥५॥ सत्वे निविशतेऽपैति पृथग्जातिषु दृश्यते । आधेयश्चाक्रियाजश्व सोऽसत्वप्रकृतिगुणः ॥६॥ इदमस्तु सन्निकृष्टं समीपतरवति चैतदो रूपं । अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात् ।।७।। नकारजावनुस्वारपञ्चमौ धुटि धातुषु । सकारजः शकारचे पट्टिवर्गस्तवर्गजः ॥८॥ उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । विहाराहारसंहारप्रहारप्रतिहारवत् ।।९।। धात्वर्थो वायते कश्चित् कश्चित्तमनुवर्तते । तमेव विशिनयन्योऽनर्थकोऽन्यः प्रयुज्यते ॥१०॥ फलव्यापारयोरेक निष्ठतायामकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मकउदाहृतः ।।१२।। धातोरान्तरे वृत्तेर्धात्वर्थनोपसंग्रहात् । प्रसिद्धरविवक्षातः कर्मणोऽकमिका क्रिया ।।१२।। नीहवाहिकृषोण्यन्तादुहिपृच्छिभिक्षिचिरुधिशास्वर्थाः। पचियाचिदण्डिग्रहमथिजिप्रमुखा द्विकर्माणः ॥१३॥ न्यादीनां कर्मणो मुख्यं प्रत्ययो वक्ति कर्मजः । नयते गौर्द्विजमि भारो ग्राममथोह्यते ॥१४॥
SR No.010658
Book TitleHemchandra kruti Kusumavali
Original Sutra AuthorHemchandracharya
Author
PublisherRushabhdev Chagniramji
Publication Year1943
Total Pages263
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy