________________
१९४
स्पृशिमृशतिविशतिदृशिशिष्लशुषय
स्त्विषिपिषिविष्लऋषितुषिदुषिपुषयः ॥६॥ श्लिष्यतिद्विषिरतोघसिवसती
रोहतिलुहिरिही अनिङ्गदितौ । देग्धिदोग्धिलिहयोमिहिवहती
नातिर्दहिरिति स्फुटमनिटः ॥७॥ इति अनिट्कारिका ।।
॥अथ संग्रहश्लोकाः॥ संहितैकपदे नित्या नित्या धातूपसर्गयोः। नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥१॥ निमित्तमेकमित्यत्र विभक्या नाभिधीयते । तद्वदस्तु यदेकत्वं विभक्तिस्तत्र वर्तते ॥२॥ ऊर्ध्व मानं किलोन्मानं परिमाणं तु सर्वतः।
आयामस्तु प्रमाणं स्यात् सङ्ख्याबाह्या तु सर्वतः ॥३॥ • अविकारो द्रवं भूतं प्राणिस्य स्वाङ्गमुच्यते । च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु ॥४॥