SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ३६ षट्त्रिंशोऽध्यायः ] पद्मपुराणम् । १३२१ तत्रस्था देवताः सर्वा गताचैव दिशो दश । हरिनिरीक्षितस्तेन तिष्ठ तिष्ठेति चाब्रवीत् ॥ चक्रं निरीक्षयामास क्रोधसंरक्तलोचनः ॥ हरिरुखाचहे दानव दुराचार मम बाइनि(नि)रीक्षय । ततस्ते संमुग्वाः सर्वे घोररूपाश्च दानवाः ॥ चक्रं मुमोच भगवान्दैत्येन्द्रस्य बलं प्रति ॥ महादेव उवाचते छिन्नशिरसः सर्वे पतिता दैत्यपुंगवाः । एकोऽयं दानवस्तत्र योधयामास विष्णुना ॥ ६१ अस्वच्छेदः कृतस्तेन निर्जितो मधुसूदनः । निर्जिते देवदेवेशे वाहुयुद्धं तु याचितम् ॥ ६२ बाहुबन्धः कृतस्तेन दिव्यं वर्षसहस्रकम् । विष्णुचिन्ताप्रपन्नास्तु नष्टाः सर्वे दिवोकसः॥ ६३ हा हेतु(ति) करुणं कृत्वाऽ(चोक्त्वाऽ)सुरमेन्ये च वाडव ॥ विष्णुश्च त्रासितस्तेन गतो बदरिकाश्रमम् । गुहा सिंहावती नाम तत्र सुप्तो जनार्दनः ॥ ६५ योजनाद्वादशान्मध्ये द्वारमेकं तु वाडव । तत्र प्रसुप्तो देवेशो भयभीतो जनार्दनः ॥ ६६ दानवः पृष्ठतो लग्नः प्रविष्टो महतीं गुहाम् । प्रसुप्तं च हरिं दृष्ट्वा दानवेन्द्रेण भाषितम् ॥ ६७ दैत्य उवाचभृशं मया हरिदृष्टः प्रसुप्तः संकटे कथम् । नयेऽहं च न संदेहो ह्यसुराणां क्षयंकरम् ॥ ६८ महादेव उवाचनिर्गता कन्यका चैका हरेः शरीरतस्तदा । रूप(तेज)स्विनी च(स) सौभाग्या दिव्यपहरणायुधा विद्युत्तेजःसमाक्रान्ता महावलपराक्रमा । मोहितो दानवस्तत्र मरु (मुरना)मेति नारद ॥ ७० कृतो वधस्तदा तेन(तस्य) दानवेन्द्रस्य पार्थि(वाड)व । सा कन्या युध्यते तेन कोपेनोज्ज्वललोचना तस्याः कोपेन भो विद्वन्भस्मीभूतः स दानवः । निहतो दानवस्तत्र सबान्धवपरिग्रहः ॥ ७२ निहते दानवे तत्र ततो देवो ह्यबुध्यत । पतितं दानवं दृष्ट्वा देवो विस्मयमागतः ॥ ७३ विष्णुरुवाचकेनायं निहतो दैत्यो मम वैरी महाबलः । अद्भुतं च कृतं कर्म मम विस्मयकारकम् ।। न च देवो न गन्धर्वस्तत्समो नास्ति दानवः ॥ महादेव उवाचविस्मयो हि हरेर्जातस्तत्रोवाचाशरीरिणी ।। आकाशवागुवाचमया च निहतो दैत्यो देवासुरभयंकरः । येन सर्वे सुरा जित्वा स्वर्गादेव निवारिताः ॥ ७६ प्रसुप्तं च हरिं दृष्ट्वा दानवस्तत्र चाऽऽगतः । संहरिष्यामि त्रैलोक्यं त्वत्कृते च जनार्दन ॥ ७७ महादेव उवाचतस्यास्तद्वचनं श्रुत्वा विष्णुर्वचनमब्रवीत् । विष्णुरुवाचउपकारः कृतः केन मम कारुण्यमिच्छता । निहनो दानवा दुष्टो देवासुरभयंकरः ॥ अहं च निर्जितो येन कथं मोऽपि निपातितः॥
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy