________________
१३२० महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेइन्द्रोऽपि निर्जितस्तेन सर्वे देवास्तथा नृप(मुने)। महासुरेण तेनैव मृत्युना च दुरात्मना ॥ ३४ देवता निर्जिताः सर्वा अत्युग्रेणैव पाण्ड(वाड)व । स्वगोभिराकृता देवा विचरन्ति महीतले ३५ सभा भयभीताश्च गता यत्र पुरंदरः । इन्द्रेण कथितं सर्वमीश्वरस्य च नारद ॥
इन्द्र उवाचस्वर्गलोकात्परिभ्रष्टा भ्रमन्ति च महीतले । मृत्युलोके स्थिता देवा न शोभन्ति महेश्वर ॥ ३७ उपायं ब्रूहि मे देव विबुधानां तु का गतिः ॥
महादेव उवाचगच्छ गच्छ सुरश्रेष्ठ यत्राऽऽस्ते गरुडध्वजः । शरणागतदीनार्तपरित्राणपरायणः॥ १९
महादेव उवाचईपरोक्तं समाकर्ण्य गतो देवं सुरेश्वरः । त्रिदशाथैव तत्रैव संप्राप्ताश्च धनंजय(पिपुंगव) ॥ ४० तत्रैव तं जगन्नाथ प्रत्यूचे च जनार्दनम् । जलमध्ये महाभाग मन्दिरे जगतां पतिम् ॥ ४१
इन्द्र उवाचनमस्ते देव देवेश महासुरविमर्दन । शरणं त्वं देवदेव दानवानां क्षयंकर ॥
४२ त्रिदशास्त्वागताः सर्वे भयार्ताः पुरुषोत्तम । रक्षास्मान्पुण्डरीकाक्ष त्वं गतिः सर्वदा च नः॥४३ त्वं माता सर्वदेवानां त्वमेव जगतां पिता । त्वं सृष्टिस्त्वं समुत्पत्तिस्त्वं च संहारकारकः॥ ४४ त्वं खाहा त्वं स्वधा चैव त्वं वषदकार एव च । ओंकारो देवदेवेश त्वमेव गरुडध्वज ॥ ४५ त्वं शिवस्त्वं च ब्रह्मा त्वं विष्णुश्चैव च चन्द्रमाः। हुताशनस्त्वं देवेश वायुराकाशमेव च ॥४६ न च त्वत्तः परं किंचित्रैलोक्यं सचराचरम् । स्थावरं जगमं चैव त्वयि चैव प्रतिष्ठितम् ॥ ४७ इच्छन्ति वै वचस्तुभ्यं(स्त्वत्तो) भयभीताश्च देवताः। दानवैर्निर्जिताः सर्वे स्वर्गभ्रष्टाः कृताः प्रभो रक्ष मां देवदेवेश शरणागतवत्सल ॥
महादेव उवाचइन्द्रस्य वचनं श्रुत्वा भगवानिदमब्रवीत् ॥
कृष्ण उवाचकीदृशो दानवः शक्र किनामा कीदृशं बलम् । किं स्थानं को वरस्तस्य भूहि सत्यं पुरंदर ॥५०
इन्द्र उवाचपूर्वमेव महाबाहो ब्रह्मवंशसमुद्भवः । तालजयोति विख्यातो मत्युग्रोऽपि महासुरः॥ ५१ तस्य पुत्रो हि विख्यातो मरु(मुर)नामेति दानवः । महाबलो महावीर्यो ब्रह्मवंशसमुद्भवः॥ ५२ पुरी चन्द्रवती नाना तत्र स्थाने वसत्यसो । देवता निर्जिताः सर्वाः स्वर्गात्तेन निराकृताः॥५३ अन्य इन्द्रः कृतस्तेन देव ह्यन्यो हुताशनः । रविचन्द्रौ कृतौ चान्यौ ग्रहनक्षत्रसंयुतौ ॥ ५४ सर्व चान्यत्कृतं तेन सत्यं सत्यं जनार्दन । देवलोकः कृतवान्यः पूर्वस्थानविवर्जितः॥ ५५
महादेव उवाचतस्य तद्वचनं श्रुत्वा कोपान्तस्थो जगत्पतिः । निहन्म्यहम(न्मीत्युक्त्वाऽ)मुं दैत्यं देवलोकभयंकरम् ॥ विदशैः सहितो देवो गतश्चन्द्रवतीपुरीम् । दृष्टो देवैः समायातो गर्जमानो महासुरः॥ ५७ असंख्यातसहस्रैश्च स च प्रहरणैयुधि । हन्यमानास्तु वै देवा असुरैश्च भयंकरैः॥
५८