________________
३३ त्रयस्त्रिंशोऽध्यायः ]
" पद्मपुराणम् । भूमि यः प्रतिगृह्णाति यश्च भूमि प्रयच्छति । उभौ तौ पुण्यकर्माणौ नियतौ स्वर्गगामिनी ॥ ३३ अन्यायेन हृता भूमिर्नरैरपहारिता । हरन्तो हारयन्तश्च(स्ते) हन्युस्ते(रा)सप्तमं कुलम् ॥ ३४ हरेद्वा हारयेद्यस्तु मन्दबुद्धिस्तमोहतः । स बद्धो वारुणैः पाशस्तिर्यग्योनिषु जायते ॥ अश्रुभिः पतितस्तेषां दातॄणामवकीर्तनम् । ब्राह्मणस्य हृते क्षेत्रे हतं त्रिपुरुषं कुलम् ॥ ३६ वापीकूपसहस्रेण अश्वमेधशतेन च । गवां कोटिप्रदानेन भूमिहर्ता न शुध्यति ॥ कृतं दत्तं तपोऽधीतं यत्किंचिद्धर्मसंस्थितम् । अर्थाङ्गुलस्य सीमाया हरणेन प्रणश्यति ॥ ३८ गोतीर्थ ग्रामरथ्यां च श्मशानं ग्राममेव च । संपीड्य नरकं याति यावदाभूतसंप्लवम् ॥ ३९ पञ्च कन्यानृते हन्ति दश हन्ति गवानृते । शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ ४० हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् । सर्व भूम्यनृते हन्ति मा स्म भूम्यनृतं वद ॥ ४१ ब्रह्मस्वे नो रतिं कुर्यात्माणैः कण्ठगतैरपि । अग्निदग्धाः प्ररोहन्ति ब्रह्मदग्धो न रोहति ॥ ४२ अग्निदग्धाः प्ररोहन्ति सूर्यदग्धास्तथैव च । राजदण्डहताश्चैव ब्रह्मशापहता हताः ।। ब्रह्मस्वेन च पुष्टानि अङ्गानि च मुहुर्मुहुः । ब्रह्मस्वहरणं कुर्वन्नरो योति ह रौरवम् ॥ ४४ न विषं विषमित्याहुब्रह्मस्वं विषमुच्यते । विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम् ॥ ४५ लोहचूर्ण चाश्मचूर्ण विषं संजरयेन्नरः । ब्रह्मस्वं त्रिषु लोकेषु कः पुमाञ्जरयिष्यति ॥ ४६ ब्रह्मस्वेन तु यत्सौख्यं देवस्वेन तु या रतिः । तद्धनं कुलनाशाय भवत्यात्मविनाशनम् ॥ ४७ ब्रह्मस्वं ब्रह्महत्या च दरिद्रस्य तु यद्धनम् । गुरुमित्रहिरण्यं च स्वर्गस्थमपि पीडयेत् ॥ ४८ श्रोत्रियाय कुलीनाय दरिद्राय च वासव । संतुष्टाय विनीताय सर्वस्वसहिताय च ॥ ४९ वेदाभ्यासतपोज्ञानेन्द्रियसंयमशालिने । इंदृशाय सुरश्रेष्ठ यदत्तं हि तदक्षयम् ॥ आमपात्रे यथा न्यस्तं क्षीरं दधि घृतं मधु । भिनत्यपात्रं दौर्बल्यान च पात्रं विनश्यति ॥ ५१ एवं गां च हिरण्यं च वस्त्रमन्नं महीं तिलान् । अविद्वान्प्रतिगृह्णाति भस्मी भवति काष्ठवत् ॥५२ यस्तडागं नवं कुर्यात्पुराणं वाऽपि खानयेत् । सर्व कुलं समुद्धृत्य स्वर्गलोके महीयते ॥ ५३ वापीकूपतडागानि उद्यानप्रभवानि च । पुनर्नीतानि संस्कारं ददते मौक्तिकं फलम् ॥ ५४ निदाघकाले पानीयं यस्य तिष्ठति वासव । स दुर्गविषमं कृच्छ्रे न कदाचिदवाप्नुयात् ॥ ५५ एकाहं तु स्थितं तोयं पृथिव्यां देवसत्तम । कुलानि तारयेत्तस्य सप्त पूर्वापराण्यपि ॥ ५६ दीपलोकमदानेन वपुष्मान्स भवेन्नरः । दक्षिणायाः प्रदानेन स्मृति मेधां च विन्दति ॥ ५७ कृत्वाऽपि पातकं कर्म यो दद्यादनुसंधिने । ब्राह्मणाय विशेषेण न स पापैर्हि लिप्यते ॥ ५८ भूमिर्गावस्तथा दाराः प्रसह्य प्रहता यदा । न निवेदयते यस्तु तमाहुर्ब्रह्मघातकम् ॥ ५९ [*ते वेदिते च राज्ञा वै ब्रह्मणो मृत्युपीडितः । न निचारयते यस्तु तमाहुर्ब्रह्मघातकम्] ॥६० उपस्थिते विवाहे च यज्ञे दाने च वासव । मोहाचरति विघ्नं यः स मृतो जायते कृमिः ॥ ६१ धनं फलति दानेन जीवितं जीवरक्षणात् । रूपमेंश्वयमारोग्यमहिंसाफलमश्नुते ॥ फलमूलाशनात्पूनां स्वर्गः सत्येन लभ्यते । प्रायोपवेशनाद्राज्यं सर्वत्र सुखमश्नुते ॥ ६३ सुखान्यः शक्र दीक्षायां सुगामी च तृणाशनः । रूपी त्रिषवणस्नायी वायुं पीत्वा क्रतुं लभेत्।।
* धनुश्विद्वान्तर्गतः पाठः फ. पुस्तकस्थोऽशुद्धश्च ।
१ क. ख. च. ज. झ. म. फ. दानानाम । २ ज. फ. यातीह ।