________________
१३०८
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डे-
-
अथ द्वात्रिंशोऽध्यायः ।
नारद उवाचदेवदेव जगन्नाथ भक्तानामभयप्रद । व्रतं ब्रूहि महादेव कृपां कृत्वा ममोपरि ॥
___ महादेव उवाचसार्वभौमः पुरा ह्यासीद्धरिश्चन्द्रो महीपतिः । तस्य तुष्टोऽददाद्ब्रह्मा पुरी कामदुधां शुभाम् ॥२ सर्वरत्नमयीं दिव्यां वालार्कसदृशप्रभाम् । [+तत्राऽऽस्थितो महीपालो देवगन्धर्वपन्नगाः॥ ३ उपासते महात्मानं तेजसाऽतीव भास्करम् । तत्र स्थितो महीपालो सप्तद्वीपां वसुंधराम् ॥ ४ पालयामास धर्मेण पिता पुत्रमिवौरसम् । प्रभूतधनधान्यस्तु पुत्रदौहित्रवानृपः॥ ५ स पालयशुभं राज्यं परं विस्मयमागतः । न तादृशमभूत्पूर्व राज्यं कस्य हि कहिंचित् ॥ ६ न चेदर्श नरैरन्यैर्विमानमधिरोहितम् । कस्ययं कर्मणो व्युष्टिर्येनाहं सुरराडिव ॥ इति चिन्तापरो भूत्वा विमानवरमास्थितः । ददर्श पार्थिववरो मेरुं शिखरिणां वरम् ॥ तत्राऽऽस्ते च महात्माऽसौ द्वितीय इव भास्करः। आसीनं पर्वतवरे शैलपट्टे हिरण्मये ॥ ९ सनत्कुमारं ब्रह्मर्षि ज्ञानयोगपरायणम् । दृष्ट्वा ह्यवतरद्राजा प्रष्टुकामोऽथ विस्मयम् ॥ १० ववन्दे चरणौ हृष्टस्तेनापि स च नन्दितः । सुखोपविष्टस्तु नृपः पप्रच्छ मुनिपुंगवम् ॥ ११ भगवन्दुर्लभा लोके संपदेयं यथा मम । कर्मणा केन लभ्येत कश्चाहं पूर्वजन्मनि ।। तत्त्वं कथय मे सर्वमनुग्राह्योऽस्मि ते यदि ॥
सनत्कुमार उवाचशृणु राजन्मवक्ष्यामि पूर्ववृत्तस्य(तं च) कारणम् । येन कृत्वा(त्य) विशेषेण तव चानुग्रहोऽभवत् त्वमासीः पूर्वजन्मनि सुवैश्यः सत्यवाक्शुचिः । स्वकर्म ते परित्यक्तं ततस्त्यक्तस्तु.बान्धवैः १४ स त्वं वृत्तिपरिक्षीणो भार्ययाऽनुगतस्तथा । निर्गतः स्वजनांस्त्यक्त्वा परप्रेषणलिप्सया ॥ १५ न च प्रेषणदो ह्यासीत्काले दुर्भिक्षपीडिते । ततः कदाचिद्गहने सरश्चोत्फुल्लपङ्कजम् ॥ १६ दृष्ट्वा तत्र कृतो भावो गृहीवः पङ्कजानि वै । एतावदुक्त्वा पुष्पाणि तान्यादाय पदे पदे ॥ १७ आस्थितो नगरी पुण्यां नाम्ना वाराणसी शुभाम् । ततो विक्रीणतः कश्चिन्नैव गृह्णाति पङ्कजम्॥ तन्मठानिर्गतः कश्चित्तत्रैव प्राङ्गणे स्थितः। तत्र स्थाने निवसता श्रुतो वादित्रनिस्वनः ॥ १९ कस्मिंश्च श्रूयते ह्येष वादित्रस्य च निस्वनः । इति पृष्टे तदा तूर्ये तेनोक्ते प्रस्थितोऽन्तरम् ॥ २० काशिराजस्तु विख्यात इन्द्रद्युम्नस्तु पार्थिवः। तस्यास्ति दुहिता ख्याता नाम्ना चन्द्रावती सती उपोषिता महाभागा जयन्तीमष्टमी शुभाम् । तत्राऽऽगतोऽसौ वैश्यस्तु सवता यत्र तिष्ठति ॥ २२ संतुष्टचित्तः स तदा हर्षात्तत्र गतो भवान् । तत्र स्थाने त्वया दृष्टो देव वैतानिको विधिः २३ आदित्यसहितो यत्र पूज्यते भगवान्हरिः । [*कृता च महती पूजा पुष्पैश्चान्यैरलंकृतः॥ २४ घटस्योपरिसंस्थो वै यत्र संपूज्यते हरिः] । तद्भक्त्या च त्वया पन्या सह पुष्पार्चनं कृतम् २५ शेषैस्तु प्रकरस्तत्र कृतः पुष्पमयस्तथा । तं दृष्ट्वा विस्मिता साऽऽह केनेहाभ्यर्चनं कृतम् ॥ २६ ज्ञात्वा त्वत्कर्म तत्सर्व कृतं संरक्षणं तव । ततस्तुष्टाव सा तुभ्यं ददौ वित्तं ततः स्वयम् ॥ २७ + अयं श्लोकः फ. पुस्तकस्थः । * धनुश्विद्वान्तर्गतः पाठः फ. पुस्तकस्थः ।
१ झ. अ. र्वत्रतस्य।