________________
१०३
३१ एकत्रिंशोऽध्यायः] पद्मपुराणम् ।
१३०७ शिव उवाचततो राजा तया सार्धमागतः पुष्करं तदा । हस्त्यश्वरथन्दैश्च समागत्य पुरोहितैः॥ ९८ ततः स्नात्वा तथा ध्यायंस्तर्पयन्पितृदेवताः । पूजयामास देवेशं पुण्डरीकाक्षमच्युतम् ॥ ९९ दीपमालाकुले नेत्रे सर्वतः सुमनोहरे । ददर्श लिखितं तत्र मार्जारं देवतालये ॥ १०० तं दृष्ट्वा प्राकृतं कर्म जन्म स्मृत्वा नृपस्तदा । मुखपङ्कजमालोक्य प्रियायाः प्रजहास च ॥१०१
रूपसुन्दर्युवाचमम संमुखमालोक्य भतः किं स्मितकारणम् ॥
शिव उवाचकथयामास हृष्टात्मा प्राक्तनं कर्मणः फलम् ॥
राजोवाचअहमासं पुरा देवि मार्जारो ब्राह्मणालये । भाक्षता मूषकास्तत्र मया शतसहस्रशः॥ १०४ ततो नारायणस्याग्रे दीपः संरक्षितो यतः। व्याजेनापि मया देवि प्राप्तं तत्कर्मणः फलम् ॥ विष्णुलोकमनुप्राप्य राज्यं प्राप्तं मयाऽधुना ।। ___ रूपसुन्दर्युवाचममापि स्मरणं जातं प्राक्तनस्य च जन्मनः । मूषिका चाहमप्यासं क्षुद्रा ब्राह्मणवेश्मनि ॥१०६ कार्तिके च प्रबोधिन्यां मन्दीभूते च दीपके । वर्त्यपाहरणार्थाय निर्गताऽहं तदा बिलात् ॥१०७ दृष्ट्वा नारायणं देवं पूजितं कुसुमैस्तथा । निद्राभिभूतं विषं च वार्तः स्पृष्टा मया तदा ॥ १०८ उत्थितस्त्वं यदा तत्र मां ग्रहीतुं कृतक्षणः । दृष्ट्वा त्वां च प्रनष्टाऽहं प्रविष्टा बिलमध्यतः।। १०९ विशन्त्या मम पादेन दीपवर्तिर्विजृम्भिता । तैलपात्रं च नमितं तेनाहं सुखभागिनी ॥ ११० तन्मया राजराजेन्द्र दीपश्चैव प्रकाशितः । इदानीं च मया प्राप्तं रूपलावण्यमुत्तमम् ॥ १११ त्वं च भर्ता तथा राज्यं पुत्राश्च विविधं सुखम् । दीपप्रबोधनाजातं ज्ञानमत्यन्तदुर्लभम् ॥११२ तस्मात्सर्वप्रयत्नेन दीपवतमनुत्तमम् । आवां हि परया भक्त्या कुर्याव च विशेषतः ।। ११३ तदेतत्कर्मणः प्राप्तं फलं राज्यादिसंपदः । पूर्वजन्म स्मृतं चापि सर्वपापक्षयस्तथा ॥ ११४ तस्मात्सर्वप्रयत्नेन विधिमत्रादिपूर्वकम् । दीपव्रतं कृतं पुंभिः पुण्यं चन्द्रार्क(ण्यमाचन्द्र)तारकम् ।।
शिव उवाचइति श्रुत्वा वचो राजा चक्रे दीपव्रतं तदा। प्रियया सह देवर्षे सम्यक्श्रद्धासमन्वितः ॥ ११६ तस्मिंस्तु पुष्करे तीर्थे कृत्वा दीपवतं तु तौ । अवापतुः परां मुक्तिं देवदानवदुर्लभाम् ॥ ११७ एतद्दीपस्य माहात्म्यं ये शृण्वन्ति नरा भुवि । सर्वपापविनिर्मुक्तः प्रयान्ति हरिमन्दिरम् ॥११८ ये च कुर्वन्ति पुरुषाः स्त्रियो वा भक्तितत्पराः। ते सर्वे पापनिर्मुक्ता यान्ति ब्रह्म सनातनम् ।। दीपव्रतमिदं विद्वन्कथितं ते विमुक्तिदम् । सर्वसौख्यप्रदं धन्यं महाव्रतमिदं तव ॥ १२० नेत्ररोगा विनश्यन्ति यथापापप्रभावजाः। आधयो व्याधयः सर्वे नश्यन्ते हि कृते क्षणात् १२१ न दारिद्यं न शोकश्च न मोहो न च विभ्रमः। गृहे लक्ष्मीः समायाति जन्मजन्मनि वाडव १२२ इति श्रीमहापुराणे पाद्म उत्तर बण्ड उमापतिनारदसंवादे दीपव्रतं नामैकत्रिंशोऽध्यायः ॥ ३१ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३३३६५