________________
२५ पञ्चविंशोऽध्यायः ]
पद्मपुराणम् ।
१२९५
तस्य कोटिगुणं पुण्यं शालग्राम शिलार्चनात् । शालग्राममयी मुद्रा संस्थिता यत्र हि कचित् ॥ ४६ वाराणस्यां च यत्पुण्यं सर्वं तत्रैव तद्भवेत् । ब्रह्महत्यादिकं पापं यत्किंचित्कुरुते नरः ॥ तत्सर्वं नाशयेदाशु शालग्रामशिलाचनात् ॥
४७
इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादे तुलसीकाष्टशालग्राममाहात्म्यं नाम चतुर्विंशोऽध्यायः ॥ २४ ॥ आदितः श्लोकानां समथ्र्यङ्काः - ३३०३०
अथ पश्चविंशोऽध्यायः ।
महादेव उवाच
प्रयागतीर्थमाहात्म्यं वक्ष्यामि च यथाश्रुतम् । ये नराः पुण्यकर्माणस्ते तत्र निवसन्ति हि ।। १ यत्र गङ्गा च यमुना यत्र चैव सरस्वती । तदेव तीर्थप्रवरं देवानामपि दुर्लभम् ।।
२
३
४
७
शं त्रिषु लोकेषु न भूतं न भविष्यति । ग्रहाणां च यथा सूर्यो नक्षत्राणां यथा शशी । तीर्थानामुत्तमं तीर्थं प्रयागाख्यमनुत्तमम् । प्रातःकाले तु भो विद्वन्प्रयागे स्नानमाचरेत् ॥ [*महापापाद्विनिर्मुक्तः स याति परमं पदम् । देयं किंचिद्यथाशक्ति दारिद्र्याभावमिच्छता ।। ५ यो नरस्तत्र गत्वा वै प्रयागे स्नानमाचरेत् ] । धनिको दीर्घजीवी च जायते नात्र संशयः ॥ ६ यत्र वटस्याक्षयस्य दर्शनं कुरुते नरः । तेन दर्शनमात्रेण ब्रह्महत्या विनश्यति ॥ आदिवटः समाख्यातः कल्पान्तेऽपि च दृश्यते । शेते विष्णुर्यस्य पत्रे अतोऽयमव्ययः स्मृतः ॥ ८ तत्र पूजां प्रकुर्वन्ति मानवा विष्णुवल्लभाः । सूत्रेणाऽऽच्छादितं कृत्वा पूजां चैत्र तु कारयेत् ॥ ९ माधवाख्यस्तत्र देवः सुखं तिष्ठति नित्यशः । तस्य वै दर्शनं कार्य महापापैः प्रमुच्यते ॥ १० यत्र देवाश्च ऋषयो मनुष्याश्चापि सर्वशः । स्वं स्वं स्थानं समाश्रित्य तत्र तिष्ठन्ति नित्यशः ११ गोघ्नो वाऽपि च चाण्डालो दुष्टो वा दुष्टचेतनः । बालघाती तथाऽविद्वान्म्रियते तत्र वै यदा १२ सवै चतुर्भुजो भूत्वा वैकुण्ठे वसते चिरम् । प्रयागे तु नरो यस्तु माघस्नानं करोति च ॥ १३ न तस्य फलसंख्याऽस्ति शृणु देवर्षिसत्तम । आपो नारा इति प्रोक्ताः सर्वलोकेषु शुश्रुम ॥१४ तेन नारायणः प्रोक्तः स्नातानां भुक्तिमुक्तिदः । ग्रहाणां च यथा सूर्यो नक्षत्राणां यथा शशी ।। मासानां हि तथा माघः श्रेष्ठः सर्वेषु कर्मसु । मकरस्थे रवौ माघे प्रातःकाले तथाऽमले ॥ १६ गोप(ष्प)देऽपि जले स्नानं स्वर्गदं पापिनामपि । योगोऽयं दुर्लभो विद्वत्रैलोक्ये सचराचरे ॥ १७ अस्मिन्यो यत्नमापन्नो स्नायादपि दिनत्रयम् । पञ्च वा सप्त वाऽप्यत्र स्नानं कुर्वन्प्रयागजम् १८ चन्द्रवर्धते सोऽपि कुले वाडवसत्तम । चराचराश्च ये जीवास्तथैव मनुजादयः ॥ १९ प्रयागतीर्थमाश्रित्य वैकुण्ठं यान्ति ते नराः । ये वसिष्ठादयस्तत्र ऋषयः सनकादयः ॥ तेऽपि प्रयागजं तीर्थ सेवन्ते च पुनः पुनः । यत्र विष्णुश्च रुद्रश्च यत्रेन्द्रश्च तथा पुनः ॥ as सर्वे वसन्तीह प्रयागे तीर्थसत्तमे । दानं तत्र प्रशंसन्ति नियमांश्च तथैव च ॥ तत्र स्नात्वा च पीत्वा च पुनर्जन्म न विद्यते ॥
२०
२१
२२
२३
इति श्रीमहापुराणे पाद्म उत्तरखण्डे प्रयागमाहात्म्ये पञ्चविंशोऽध्यायः ।। २५ ।। आदितः लोकानां समथ्र्यङ्काः -- ३३०५३
* धनुविधान्तर्गतः पाठः क. ख. च. ज. झ. य. फ. पुस्तकस्थः ।