________________
१२९४ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेज्वलते यत्र चाऽऽज्येन तुलसीकाष्ठपावकः । अग्न्यागारे श्मशाने वा दह्यते पातकं नृणाम् ॥१५ होमं कुर्वन्ति ये विप्रास्तुलसीकाष्ठवह्निना । सिक्थे सिक्थे तिले वाऽपि अग्निष्टोमफलं लभेत् १६ यो ददाति हरेधूपं तुलसीकाष्ठसंभवम् । शतक्रतुसमं पुण्यं लभते गोशतं फलम् ॥ १७ नैवेद्यं पचते यस्तु तुलसीकाष्ठवह्निना । मेरुतुल्यं भवेदत्तं तदन्नं केशवस्य हि ॥ तुलसीपावकेनाथ यो दीपं कुरुते हरेः। दीपलक्षसहस्राणां पुण्यं स लभते फलम् ॥ १९ न तेन सदृशो लोके वैष्णवो भुवि दृश्यते । यः प्रयच्छति कृष्णस्य तुलसीकाष्ठचन्दनम् ॥ २० स जायते कृपापात्रं विष्णोडवसत्तम । तुलसीदारुजातेन चन्दनेन कलौ हरिम् ॥ २१ विलिप्य भक्तितो नित्यं रमते हरिसंनिधौ । तुलसीपङ्कलिप्ताङ्गः कुरुते विष्णुपूजनम् ॥ २२ पूजाशतदिनैकाहा(?) लभते गोशतं फलम् । विलेपार्थे तु कृष्णस्य तुलसीकाष्ठचन्दनम् ॥ २३ मन्दिरे तिष्ठते यावत्तावत्पुण्यफलं शृणु । तिलप्रस्थाष्टकं दत्त्वा यत्पुण्यं प्रामुयानरः ॥ २४ तत्फलं जायते पुंसां प्रसादाचक्रपाणिनः । यो ददाति पितॄणां तु पिण्डे तुलसिसंभवम् ॥ २५ [*दलं संजायते तृप्तिः पत्रे पत्रे शताब्दिका] । तुलसीमूलमृत्स्नैव(त्नया) स्नानं कुर्याद्विशेषतः॥ तेन तीर्थे कृतं स्नानं यावच्चाङ्गे च मृत्तिका । नवीनया तु मञ्जर्या पूजनं च करोति यः ॥ २७ नानापुष्पैः कृता पूजा यावच्चन्द्रदिवाकरौ । यस्मिन्गृहे च तिष्ठेत तुलसीदृक्षवाटिका ॥ २८ दर्शनात्स्पर्शनाचैव ब्रह्महत्यादिपातकम् । तत्सर्व विलयं याति दर्शनेनैव नारद ॥ २९
महादेव उवाचअथान्यत्ते प्रवक्ष्यामि शृणुष्वेकाग्रमानसः। न कस्यापीह कथितं शृणु देवर्षिसत्तम ।। ३० यत्र यत्र गृहे ग्रामे वने वा तुलसी भवेत् । तत्र तत्र जगत्स्वामी प्रीतात्मा च वसेद्धरिः॥ ३१ गृहे तस्मिन्न दारिद्यं नायोगो बन्धुसंभवः । न दुःखं न भयं रोगास्तुलसी यत्र तिष्ठति ॥ ३२ सर्वत्र तुलसी पुण्या पुण्यक्षेत्रे विशेषतः । संनिधौ तस्य देवस्य रोपणात्पृथिवीतले ॥ ३३ तेषां विष्णुपदं नित्यं तुलस्या रोपणे कृते । उत्पातान्दारुणान्रोगान्दुनिमित्तान्यनेकशः ॥ ३४ तुलस्याऽभ्यर्चितो भक्त्या हन्ति शान्तिकरो हरिः । तुलसीगन्धमाघ्राय यत्र गच्छति मारुतः॥ दिशो दश च ताः पूता भूतग्रामश्चतुर्विधः। यस्मिन्गृहे मुनिश्रेष्ठ तुलसीमूलमृत्तिका॥ ३६ सर्वदा तत्र तिष्ठन्ति देवताश्च शिवो हरिः । तुलसीवनजा छाया यत्र यत्र भवेविज ॥ ३७ तर्पणं कुरुते तत्र पितॄणां [+तृप्तिहेतवे । तुलसीनिकरो यत्र पतते यत्र नारद ॥ ३८ पिण्डदानादिकं तत्र पितॄणां] दत्तमक्षयम् । तस्या मूले स्थितो ब्रह्मा मध्ये देवो जनार्दनः॥३९ मञ्जर्या वसते रुद्रस्तुलसी तेन पावनी । शिवालये विशेषेण रोपयेत्तुलसी यदि ॥ ४० बीजसंख्या(?) वसेत्स्वर्गे प्रत्येकं युगसंख्यया । उमया त्वं पुरा देवि शंकरार्थ हिमालये ॥ ४१ रोपिता शतवृक्षे तु तुलस्याः (सी) प्रणतोऽस्म्यहम्। पार्वणावसरे यस्तु श्रावणे चाथ रोपयेत्॥४२ संक्रान्तिदिवसे चव तुलसी चातिपुण्यदा । तुलस्या पूजयेन्नित्यं दरिद्र ईश्वरो भवेत् ॥ ४३ सर्वसिद्धिकरा मूर्तिः कृष्णकीर्ति ददाति च । शालग्रामशिला यत्र तत्र संनिहितो हरिः॥ ४४ । तत्र स्नानं च दानं च वाराणस्याः शताधिकम् । कुरुक्षेत्रं प्रयागं च नैमिषारण्यमेव च(?) ॥४५
* इदम क. ख. च. ज. झ. ञ, पुस्तकस्थम् । + धनुश्चिद्रान्तर्गतः पाठः फ. पुस्तकस्थो विसंगतश्च ।
१ फ. 'प्तिः श्राद्धे काले शताधिका ।