SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ २८२ यशीत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् । १९१५ अनादिनिधनो विष्णुः स एव परमेश्वरः । संपूज्यो देवताश्रेष्ठ इत्येके प्रोचिरे द्विजाः ॥ तेषां विवदतां तत्र मनुः स्वायंभुवोऽब्रवीत ।। मनुरुवाचशुद्धसत्त्वमयो योऽसौ कल्याणगुणवान्प्रभुः । पुण्डरीकेक्षणः श्रीमा-श्रीपतिः पुरुषोत्तमः ॥ १७ विप्राणां वेदविदुषामेक एवार्चितः प्रभुः । विप्राणां नेतरे पूज्या रजस्तमोविमिश्रिताः ॥ १८ वसिष्ठ उवाचइति तस्य वचः श्रुत्वा सर्व एव महर्षयः । भृगु तपोनिधि विषं प्रोचुः प्राञ्जलयस्तथा ॥ १९ _ ऋषय ऊचुःअस्माकं संशयं छेत्तुं त्वं समर्थोऽसि सुव्रत । ब्रह्मविष्णुमहेशानामन्तिकं ब्रज सुव्रत ॥ २० गत्वा तेषां समीपं तु तथा दृष्ट्वा तु विग्रहान् । शुद्धसत्त्वगुणं तेषां यस्मिन्संविद्यते मुने ॥ २१ स एव पूज्यो विप्राणां [*नेतरस्तु कदाचन । शुद्धसत्त्वमयः साक्षाद्ब्रह्मण्यः] स भविष्यति २२ [+तीर्थप्रसादवाल्लोके विप्राणां स भविष्यति ]। देवतानां पितॄणां च तस्योच्छिष्टं सुपावनम् २३ तस्माद्याहि मुनिश्रेष्ठ विबुधानां निवासनम् । क्षिप्रं कुरु मुनिश्रेष्ठ सर्वलोकहितं प्रभो ॥ २४ वसिष्ठ उवाचएवमुक्तस्ततस्तूर्ण कैलासं मुनिसत्तमः । जगाम वामदेवेन यत्राऽऽस्ते वृषभध्वजः ॥ गृहद्वारमुपागम्य शंकरस्य महात्मनः । शूलहस्तं महारौद्रं नन्दि दृष्ट्वाऽब्रवीविजः॥ भृगुरुवाचसंप्राप्तोऽहं भृगुर्विप्रो हरं द्रष्टुं सुरोत्तमम् । निवेदयस्व मां शीघ्रं शंकराय महात्मने ॥ २७ वसिष्ठ उवाचतस्य तद्वचनं श्रुत्वा नन्दी सर्वगणेश्वरः । उवाच परुषं वाक्यमहर्षिममितौजसम् ॥ २८ ____२५ नन्धुवाच असांनिध्यं प्रभोस्तस्य देव्या क्रीडति शंकरः । निवर्तस्व निवर्तस्त्र यदि जीवितुमिच्छसि॥२९ वसिष्ठ उवाचएवं निराकृतस्तेन तत्रातिष्ठन्महातपाः । बहूनि च दिनान्यस्मिन्गृहद्वारेऽपि शांकरे ॥ ३० भृगुरुवाचनारीसंगममनोऽसौ यस्मान्मामवमन्यते । योनिलिङ्गस्वरूपं वै तस्मात्तस्य भविष्यति ॥ ३१ ब्राह्मणं मां न जानाति तमसा समुपागतः। अब्रह्मण्यत्वमापन्नो ह्यपूज्योऽसौ द्विजन्मनाम् ॥३२ तस्मादनं जलं पुष्पं तस्मै दत्तं हविस्तथा । निर्माल्यमस्य तत्सर्व भविष्यति न संशयः ॥ ३३ वसिष्ठ उवाचएवं शप्त्वा महातेजाः शंकरं लोकपूजितम् । उवाच गणमत्युग्रं नन्दि शूलधरं नृप ॥ ३४ भृगुरुवाचरुद्रभक्ताश्च ये लोके भस्मलिङ्गास्थिधारिणः । ते पाषण्डत्वमापन्ना वेदवाह्या भवन्तु वै ॥ ३५ * धनुश्चिद्वान्तर्गतः पाठः क. ज फ. पुस्तकस्थः । + धनुधिद्वान्तर्गतः पाठः क. ज. फ. पुस्तकस्थः । १क य. ज. ढ. फ.मत्तोऽसौ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy