________________
२७६ षट्सप्तत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
१८९३ वैनतेयं समारुह्य सत्यया सह केशवः । स्वलॊके प्रययौ तूर्णं द्रष्टुं तां देवमातरम् ॥ ८० प्रविश्य नगरी तत्र देवराजो जनार्दनः । अवरुह्य द्विजश्रेष्ठात्पत्न्या सह महाबलः॥ ८१ ववन्दे मातरं तत्र वन्द्यां तां त्रिदिवौकसाम् । संपरिष्वज्य बाहुभ्यामदितिः पुत्रवत्सला ॥ ८२ निवेश्याऽऽसनमुख्ये तु पूजयामास भक्तितः । आदित्या वसवो रुद्राः शतक्रतुपुरोगमाः ॥ ८३ तत्र संपूजयामासुर्यथाई परमेश्वरम् । शचीगृहं समागम्य सत्यभामा यशस्विनी ॥ ८४ तया समर्चिता देव्या समासीना सुखासने । तस्मिन्काले सुपुष्पाणि पारिजातस्य किंकराः ८५ शच्यै देव्यै ददुः प्रीत्या सहस्राक्षेण चोदिताः । प्रगृश्य तानि पुष्पाणि शचीदेवी मुमध्यमा ८६ नीलनिर्मलकेशे च बबन्ध स्वस्य मूर्धनि । अवमान्य तदा तत्र सत्यभामां यशस्विनीम् ॥ ८७ अनी मानुषी चेयं देवाई कुसुमं शुभम् । इति कृत्वा मतिं तस्यै न ददौ कुसुमानि सा ॥ ८८ विनिष्क्रम्य गृहात्तस्मात्सत्या कोपसमन्विता । समेत्य कृष्णं भर्तारमुवाच कमलेक्षणा ॥ ८९
सत्योवाचएषा शची यदुश्रेष्ठ पारिजातेन गर्विता । अदत्त्वा मम गोविन्द दधार स्वस्य मूनि ॥ ९०
महादेव उवाचस तया भाषितं श्रुत्वा वासुदेवो महावलः । उत्पाठ्य पारिजातं तु निवेश्य गरुडोपरि ॥ ९१ आरुह्य सत्यया तूर्ण वैनतेयं महाबलम् । प्रययौ द्वारकां रम्यां नगरी देवकीमुतः ॥ ततः कोपसमाविष्टो देवराजः शतक्रतुः । रुदैर्वसुभिरादित्यैः साध्यैश्च मरुतां गणैः॥ ९३ ऐरावतं समारुह्य ययौ युद्धाय केशवम् । ततो देवगणाः सर्वे परिवार्य जनार्दनम् ॥ ९४ वषुः शस्त्रवर्षाणि मेघा इव महाचलम् । कृष्णश्चिच्छेद चक्रेण तान्यस्त्राणि दिवौकसाम् ॥ ९५ वैनतेयस्तु संक्रुद्धः पक्षपातेन वीर्यवान् । पातयामास तान्देवांस्तालानिव महानिलः॥ ९६ ततः क्रुद्धः सहस्राक्षो देवानामीश्वरः प्रभुः। मुमोच सहसा दीप्तं वजं कृष्णजिघांसया ॥ ९७ जग्राह कृष्णस्तदनं हस्तेनैकेन लीलया । ततो भीतः सहस्राक्षो नागेन्द्रादवरुह्य सः॥ ९४ प्राञ्जलिः पुरतः स्थित्वा नमस्कृत्य जनार्दनम् । प्राह गद्गदया वाचा स्तुत्वाँ स्तुतिभिरेव च९९
इन्द्र उवाचदेवयोग्यो ह्ययं कृष्ण पारिजातस्त्वया पुरा । दत्तो मम सुराणां च कथं स्थास्यति मानुषे १००
महादेव उवाचततः प्रोवाच भगवान्सहस्राक्षमुपस्थितम् ॥
१०१ कृष्ण उवाचशच्याऽवमानिता सत्या तव गेहे सुरेश्वर । अदत्वा पारिजातानि सत्यायै सा पुलोमजा॥१०२ स्वयमेव स्वशिरसि धारयामास ते प्रिया । अस्या निमित्तं देवेन्द्र पारिजातो हृतो मया ॥१०३ अस्य प्रतिश्रुतं दत्तं मया सुरगणेश्वर । तव गेहे पारिजातं स्थापयामीति वासव ॥ १०४ तस्मादद्य न दातव्यः पारिजातः सुरेश्वर । मानवानां हितार्थाय प्रापयिष्यामि भूतले ॥ १०५ तावत्तिष्ठतु देवेन्द्र पारिजातो ममाऽऽलये । मयि स्वर्ग गते शक गृहाण त्वं यथेच्छया ।। १०६
महादेव उवाचएवमुक्त्वा यदुश्रेष्ठस्तस्मै वजं ददौ स्वयम् । एवमस्त्विति गोविन्दं नमस्कृत्य स वज्रभृत् १०७
१. भोजयामास । २ हु. 'भ्य पुरस।
. त्वा मनिभि'। ४ क. ज. स. फ. देवनानां ।' झ. फ. पुनः।