________________
१८९४ महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेप्रययौ स्वपुरं दिव्यं सह देवगणैर्वृतः । कृष्णोऽपि सत्यया देव्या गरुडोपरिसंस्थितः ॥ १०८ संस्तूयमानो मुनिभिरवत्यां विवेश ह । सत्याया निकटे स्थाप्य पारिजातं सुरद्रुमम् ॥ १०९ रमयामास भार्याभिः सर्वाभिः सर्वगो हरिः । निशासु तासां सर्वासां गेहेषु मधुसूदनः ॥ विश्वरूपधरः श्रीमानुवास स मुखपदः ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्डे श्रीकृष्णचरिते वासुदेवविवाहादिचरितकथनं नाम
षट्सप्तन्यधिकद्विशततमोऽध्यायः ॥ २७६ ।। आदितः श्लोकानां समठ्यङ्काः-४७७८४
अथ सप्तसप्तत्यधिकद्विशततमोऽध्यायः ।
श्रीरुद्र उवाचरुक्मिण्यां कृष्णस्य प्रद्युम्नो मदनांशेन जज्ञे ॥ असौ मदनसंभूतो महावलः शम्बर जनिवान् ॥ तस्य रुक्मिणः सुतायामनिरुद्धो जज्ञे ॥ सोऽपि बाणपुत्रीमुषां नाम कन्यामुपयेमे ॥
सा तु खमे नीलोत्पलदलश्यामं पुण्डरीकनिभेक्षणं महाबाहुं विचित्राभरणोपेतं षोडशसमावयस्कं रक्तारविन्दवक्त्रं [+ययावदुपभुज्य प्रबुध्य तं पुरतो न दृष्ट्वा मदनेन पीडिता भ्रान्तचित्ता मां त्यक्त्वा] वा(का)सि क यासीति बहुधा विललाप ॥
ततस्तस्याः सखी चित्रलेखेति नाम कन्या तादृशीमवस्थां गतां विलोक्य किंनिमित्तं भ्रान्तचित्ताऽसीति पप्रच्छ । साऽपि स्वपलब्धं पतिं यथावदाचष्ट । साऽपि सकलदेवमानुषादिश्रेष्ठान्पटे विलिख्य तदस्यै दर्शयामास ॥ यदुवंशसंभूतान्कृष्णसंकर्षणादीन्प्रद्युम्नानिरुद्धादीनपि सम्यनिवेदयामास ॥ सा तेषां कृष्णमनुमाय प्रद्युम्नानन्तरमनिरुद्धं दृष्ट्वा स इत्येष इत्यालिलिङ्ग ।
अथ चित्रलेखा बहीभिर्मायावतीभिदैत्यस्त्रीभिरवतीं गत्वा रात्रावन्तःपुरे मुषुप्तमनिरुद्धं दृष्ट्वा गृहीत्वा मोहयित्वा बाणस्यान्तःपुरे चैत्य प्रासादे तस्या बाणपुत्र्याः शय्यायां चिक्षेप ११
सोऽपि प्रबुद्धोऽतिरम्ये श्लक्ष्णपर्यङ्के संस्थितामुषां सर्वलक्षणलक्षितां विचित्राभरणवासोगन्धमाल्यालंकृतां काश्चनवर्णा सुकेशी मुजातस्तनीं दृष्ट्वा गाढमालिङ्गय करिणीं गन्धहस्तीव ता. मतिप्रीतिसंयुक्तां यथासुखं रमयामास ॥
एवं मासमात्र निरन्तरं तयाऽनिरुद्धं रममाणं कदाचिदन्तःपुरनिवासिन्यो दैत्यवृद्धाः स्त्रियो ज्ञात्वा राजे निवेदयामासुः॥
स राजा क्रोधताम्राक्षः परं विस्मयं गत्वा तमिहाऽऽनयतेत्युक्त्वा स्वकिंकरान्प्रेषयामास १४ तेऽपि तूर्ण नृपप्रासादमारुह्य राजपुत्र्याः शयने संस्थितमनिरुद्धं निग्रहीतुमाजग्मुः ॥ १५
+ धनुश्विद्वान्तर्गतः पाठः क. ज. झ. फ. पुस्तकस्थः ।
o to w gvo.