________________
१८९२ महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेचिच्छेद तेजसा दीप्त्या तमांसीव दिवाकरः । ततस्ते राक्षसाः सर्वे शतशोऽथ सहस्रशः॥५३ . उद्यम्य झूलांश्च तदा युद्धायाभिमुखं ययुः । ततस्तु तोमरैर्दिव्यैभिन्दिपालैः सपट्टिशैः॥ ५४ केशवं ताडयामा राक्षसा जयकाक्षिणः । ततस्तु शाङ्गमादाय भगवान्गरुडध्वजः॥ ५५ दिव्यशस्त्राणि चिच्छेद [*बाणैरग्निशिखोपमैः । तेषां शिरोधरा नागानश्वांश्चैव तरस्विनः ५६ चक्रेणैव प्रचिच्छेद] वीर्यवान्पुरुषोत्तमः। केचिचक्रेण संछिन्नास्तथाऽन्ये शरताडिताः॥ ५७ गदया निहताः केचिद्राक्षसास्तद्रणाजिरे । एवं ते राक्षसाः सर्वे पतिता धरणीतले ॥ ५८ शक्रोत्सृष्टेन वज्रेण निर्भिन्ना इव भूधराः। निहत्य दानवान्सर्वान्पुण्डरीकायतेक्षणः॥ ५९ पाञ्चजन्यं महाशङ्ख प्रदध्मौ पुरुषोत्तमः । ततः स नरको दैत्यो धनुरादाय वीर्यवान् ॥ ६० दिव्यं स्यन्दनमारुह्य ययौ युद्धाय केशवम् । तयोर्युद्धमभूद्धोरं तुमुलं लोमहर्षणम् ॥ ६१ बहुभिर्वाणसाहस्रबंघयोरिव वर्षतोः । ततोऽर्धचन्द्रवाणेन वासुदेवः सनातनः ॥ तस्य राक्षसमुख्यस्य धनुश्चिच्छेद वीर्यवान् । ससर्जास्त्रं महादिव्यं नरकस्य महोरसि ॥ ६३ स तेन भिनहृदयः पपातोया महासुरः। शक्रवज्रेण निर्भिन्नो महाचल इवोनदन् ॥ ६४ उपगम्य ततः कृष्णः समीपं तस्य रक्षसः। भूम्या संप्रार्थितः प्राह वरं वृण्विति राक्षसम्॥ स चाऽऽह राक्षसः कृष्णं गरुडोपरि संस्थितम् ।।
नरकासुर उवाचन मे कृत्यं वरेणास्ति नरकोऽहं तथाऽपि च । अन्यलोकहितार्थाय वृणेऽहं वरमुत्तमम् ॥ ६६ मृताहनि तु मे कृष्ण सर्वभूतेश्वरेश्वर । ये नरा मङ्गलस्नानं कुर्वन्ति मधुसूदन ॥ न तेषां निरयमाप्तिर्भवत्वेवं भयापह ॥
__ महादेव उवाच एवमस्त्विति गोविन्दो ददौ तस्मै वरं प्रभुः । ततः पश्यन्हरेः साक्षाच्छरदम्बुजसंनिभौ ॥ ६८ चरणौ वज्रवैदूर्यनूपुराभ्यां विराजितौ । अर्चितौ विधिरुद्रायैस्त्रिदशैर्मुनिभिस्तथा ॥ ६९ त्यक्त्वा प्राणान्महीपुत्रः सारूप्यमगमद्धरेः । ततो देवगणाः सर्वे हर्षनिर्भरमानसाः॥ ७० बवृषुः पुष्पवर्षाणि तुष्टुवुश्च महर्षयः । प्रविश्य नगरं तस्य कृष्णः कमललोचनः॥ ७१ बलात्तेन गृहीतानि धेनानि त्रिदिवौकसाम् । कुण्डले देवमातुश्च तथैवोच्चैःश्रवोहयम् ॥ ७२ ऐरावतं गजश्रेष्ठं प्रदीप्तं मणिपर्वतम् । सर्वमेतद्यदुश्रेष्ठो ददौ शक्राय वज्रिणे ॥ पार्थिवान्सर्वराष्ट्रेभ्यो जित्वाऽसौ नरको बली। कन्याषोडशसाहस्रं हृतवान्स्वेन तेजसा ॥ ७४ संनिरुद्धास्तु ताः सर्वा नरकान्तःपुरे तदा । दृष्ट्वा कृष्णं महावीर्य कंदर्पशतसंनिभम् ॥ ७५ भर्तारं चक्रिरे सर्वाः पतिं विश्वस्य सर्वगम् । एकस्मिन्नेव लग्ने तु गोविन्दोऽनन्तरूपवान् ॥ ७६ तासां करग्रहं चक्रे विधिना पुरुषोत्तमः। नरकस्य सुताः सर्वे पुरस्कृत्य महीं तदा ॥ ७७ गोविन्दं शरणं जग्मुस्तानरक्षघृणानिधिः । तद्राज्ये स्थाप्य तान्सर्वान्पृथिव्या वाक्यगौरवात्॥ ऐन्द्र विमानमारोप्य ताश्च सर्वा वरस्त्रियः । देवदूतैर्महाभागैरवत्यां न्यवेशयत् ॥ ७९
* धनुश्विद्वान्तर्गतः पाठः क. ज. झ. फ. पुस्तकस्थः ।
१.फ. राणीमि । २ क. ज. झ. फ. 'वं छादयामास: पलालैरिव पावकम् । त। ३ . फ. वान्भूतभावनः । दिन. महादीप्तं । . क. ज. झ. फ. रत्नानि । ६. एतस्मिन्नेव काले त ।