________________
१८९१
२७६ षट्सप्तत्यधिकद्विशततमोऽध्यायः ] पद्मपुराणम् ।
महादेव उवाचतच्छृत्वा जाम्बवान्हष्टः प्रणनामाथ दण्डवत् । परिणीय नमस्कृत्य विनयात्माह केशवम् ॥ २६
जाम्बवानुवाचधन्योऽस्मि कृतकृत्योऽस्मि तव संदर्शनात्मभो । दासोऽहं पूर्वभावेन तव देवकिनन्दन ॥ २७ दत्तवानसि गोविन्द कदनं पूर्वकाक्षितम् । मयेदं कदनं मोहाद्यत्कृतं स्वामिना त्वया ॥ तत्क्षम्यतां जगन्नाथ करुणाकर शाश्वत ॥
२८ महादेव उवाचइत्युक्त्वा प्रणतो भूत्वा नमस्कृत्य पुनः पुनः । नानारत्नमये पीठे निवेश्य विनयात्प्रभुम् ॥२९ शारदाजनिभौ पादौ प्रक्षाल्य शुभवारिणा । मधुपर्कविधानेन पूजयित्वा यद्वहम् ॥ ३० वस्त्रैराभरणैर्दिव्यैः पूजयित्वा विधानतः। पुत्री जाम्बवती नाम कन्यां लावण्यसंयुताम् ॥ ३१ कन्यारत्नं [*ददौ तस्मै भार्यार्थममितौजसे । अन्यैश्च मणिमुख्यैश्च स्यमन्ताख्यं ददौ मणिम् ३२. तत्रैवोद्वाह्य तां कन्यां प्रहृष्टः परवीरहा] । ददौ तस्मै वरां मुक्तिं प्रीत्या जाम्बवते हरिः ॥ ३३ गृहीत्वा तनयां तस्य कन्यां जाम्बवतीं मुदा । विनिर्गत्य बिलात्तस्मात्मययो द्वारकां पुरीम् ३४ सत्राजिते ददौ रत्नं स्यमन्ताख्यं यदूत्तमः । दुहित्रे प्रददौ सोऽपि कन्याय मणिमुत्तमम् ॥ ३५ मासि भाद्रपदे शुक्ले चतुर्थी चन्द्रदर्शनम् । मिथ्याभिदूषणं पाहुस्तस्मात्तत्परिवर्जयेत् ॥ ३६ तत्माप्य दर्शनं तत्र चतुर्थी शीतरश्मिनः । स्यमन्तस्य कथां श्रुत्वा मिथ्यावादात्प्रमुच्यते॥३७ सुलक्ष्मणां नागजिती सुशीला च यशस्विनीम् । मद्रराजमुतास्तिस्रः कन्यकास्ताः शुभाननाः ३८ स्वयंवरस्थास्ताः [+कृष्णं वरयामासुरुज्ज्वलाः । एकस्मिन्दिवसे तास्तु उपयेमे यदूद्वहः ॥ ३९ अष्टौ महिष्यस्ताः सर्वा] रुक्मिण्याचा महात्मनः। रुक्मिणी सत्यभामा च कालिन्दी च शुचिस्मिता मित्रविन्दाजाम्बवतीनामजित्यः सुलक्ष्मणा । मुशीला नाम तन्वङ्गी महिषी चाष्टमी स्मृता॥ ४१ भूमिपुत्रो महावीर्यो नरको नाम राक्षसः । जित्वा देवपतिं शक्रं सर्वाश्चैव सुरारणे ॥ ४२ अदित्या देवमातुश्च कुण्डले च सुवर्चसी । बलाजग्राह देवानां रत्नानि विविधानि च ॥ ४३ ऐरावतं महेन्द्रस्य तथैवोच्चैःश्रवोहयम् । माणिक्यादि धनेशस्य शङ्खपद्मनिधि तथा ॥ ४४ स्त्रियश्चाप्सरसथैव हृतवान्क्षितिनन्दनः । वज्रादिहेतयश्चैव वलाद्धृत्वा दिवौकसाम् ॥ ४५ तैरेव स सुरान्हत्वा सभां मयविनिर्मिताम् । उवास व्योमगो दिव्यो नगर्या विमलेऽम्बरे ॥ ४६ ततो देवगणाः सर्वे पुरस्कृत्य शचीपतिम् । भयार्ताः शरणं जग्मुः कृष्णमक्लिष्टकारणम् ।। ४७ कृष्णोऽपि तदुपश्रुत्य सर्व नरकचेष्टितम् । देवानामभयं दत्वा वैनतेयं व्यचिन्तयत् ॥ ४८ तस्मिन्क्षणे हरेस्तस्य वैनतेयो महाबलः । पाञ्जलिः पुरतस्तस्थौ सर्वदेवनमस्कृतः॥ ४९ तमारुह्य द्विजश्रेष्ठं सत्यया सह केशवः । संस्तूयमानो मुनिभिः प्रययौ राक्षसालयम् ॥ ५० प्रदीप्यमानमाकाशे यथा सूर्यस्य मण्डलम् । राक्षसैबहुभिर्युक्तं दिव्यैराभरणैर्युतम् ॥ ५१ ददर्श तत्पुरं कृष्णो दुर्भेद्यं त्रिदशैरपि । तदावरणानि भगवान्वीक्ष्य चक्रेण वीर्यवान् ॥ ५२ ____ * धनुश्विहान्तर्गतः पाठः क. च. ज. स. फ. अ. पुस्तकस्थः। + धनुचिहान्तर्गतः पाठः क. ज. स. फ. पुस्तकस्थः।
१ ङ. 'वानामापदं हन्तुं
।