________________
१८८८ महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेउपयेमे विधानेन स रामस्तां च रेवतीम् । रमयामास रेवत्या शच्या इव सुरेश्वरः ॥ १२ विदर्भराजो धर्मात्मा भीष्मको नाम धार्मिकः । बभूवुस्तस्य पुत्रास्तु रुक्मिप्रभृतयः शुभाः १३ तेषामवरजा कन्या रुक्मिणी वरवर्णिनी । कमलांशेन संभूता सर्वलक्षणसंयुता ॥ १४ राघवत्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि । अन्येष्वप्यवतारेषु विष्णोरेषा सहायिनी ॥ १५ हिरण्यकहिरण्याक्षौ संभूतौ द्वापरे पुनः । शिशुपालो दन्तवक्त्र इति नाम्ना समन्वितौ ॥ १६ चैद्यान्वये समुद्भूतौ महाबलपराक्रमौ । रुक्मिणी शिशुपालाय दातुमैच्छन्नृपात्मजः ॥ १७ तं नेच्छति पतिं सा तु शिशुपालं शुभानना । बाल्यात्मभृति वै विष्णुमनुरक्ता दृढव्रता ॥ १८ उदिश्य कृष्णं भर्तारं सुराणामर्चनं सदा । चकार रुक्मिणी कन्या दानानि विविधानि च १९ व्रतचयोपरा भूत्वा ध्यायन्ती पुरुषोत्तमम् । आत्मेशं स्वस्य भतारमुवास पितृमन्दिरे ॥ २० कर्तुं तु शिशुपालाय (लेन) विवाहं पार्थिवोत्तमः । चकार यत्नं पुत्रेण रुक्मिणा सह धीमता२१ पुरोहितसुतं विमं प्रेषयामास रुक्मिणी । उद्दिश्य कृष्णं भर्तारं स तूर्ण द्वारकां ययौ ॥ २२ समेत्य कृष्णं रामं च ताभ्यां विधिवचितः । एकान्ते सर्वमाचष्ट रुक्मिणीभाषितं तयोः॥२३ तच्छ्रुत्वा रामकृष्णौ तु तेन विप्रेण धीमता । सर्वशस्त्रास्त्रसंपूर्ण रथमाकाशगं प्रभू ॥ २४ आरुह्य सूतमुख्येन दारुकेण महात्मना । विदर्भनगरी तूर्ण जग्मतुः पुरुषोत्तमौ ॥ २५ राजानः सर्वराष्ट्रेभ्यो विवाहं द्रष्टुमागताः । जरासंधमुखाः सर्वे शिशुपालस्य धीमतः॥ २६ तस्मिन्नुदाहसमये रुक्मिणी रुक्मभूषणा । निःसृतार्चयितुं दुर्गा सखीभिर्नगराहिः॥ २७ तदैव संध्याकाले तु संप्राप्तो देवकीसुतः । रथस्थां तां च जग्राह बलवान्मधुसूदनः ॥ २८ सहसा रथमारोप्य ययौ तूर्ण स्वमालयम् । [*ततः क्रोधसमाविष्टा जरासंधमुखा नृपाः॥ २९ रुक्मिणा राजपुत्रेण युद्धाय समुपस्थिताः] । अनुयाता हरिं क्रुद्धाश्चतुरङ्गबलान्विताः ॥ ३० बलभद्रो महाबाहुँरवरुह्य रथोत्तमात् । लागलं मुसलं गृह्य निजघान रणे रिपून् ॥ ३१ स्थानश्वान्महानागांस्तथा पादचरानपि । लाङ्गलमुसलाभ्यां वै निजघान बलाद्रणे ॥ ३२ तस्य लागलपातेन चूर्णिता रथपतयः । नागाश्च पतिता भूमौ वज्रेणेव महीधराः॥ ३३ निभिन्नमस्तकाः सर्वे वमन्तो रुधिरं बहु । क्षणेनैव हतं सैन्यं बलरामेण वै तदा ॥ ३४ सावं सनागं सरथं सपदाति महारणे । समन्तात्समरे तत्र सुस्रुवुः शोणितापगाः॥ ३५ संभनाः पार्थिवाः सर्वे दुद्रुवुर्भयपीडिताः । कृष्णेन कदनं चक्रे रुक्मी क्रोधवशाली ॥ ३६ धनुरुद्यम्य वाणोधैस्ताडयामास शाङ्गिणम् । ततः प्रहस्य गोविन्दः शार्ङ्गमादाय लीलया ॥३७ जघानैकेन बाणेन रथाश्वांस्तस्य सारथिम् । रथं ध्वजपताकां च चिच्छेद धरणीधरः॥ ३८ विरथः खड्गमादाय धरण्यां स उपस्थितः । कृष्णस्तु खडं चिच्छेद बाणेनैकेन वीर्यवान् ॥ ३९ ततः स मुष्टिमुद्यम्य कृष्णं वक्षस्यताडयत् । तं तु जग्राह वीर्येण निवध्य निबिडं हरिः॥ ४० तीक्ष्णं झुरं समादाय प्रहसन्मधुसूदनः । शिरसो मुण्डनं कृत्वा मुमोच च जनार्दनः ॥ ४१
* अयं श्लोकः क. ज. झ. फ. पुस्तकस्थः ।
१झ. °न रामस्तां च शुभे दिने । र । २ झ. हिः । एतस्मिन्नेव का । ३ ङ. अ. "हुरारुह्य रयमुत्तमम् । ला । ४.अ.न वरानरीन् । ५ झ. फ.म् । तथा पताकां चापं च चि। क. ज. झ.फ. तं जग्राह रणे वीरं नि । ७ झ, क्षुरप्रमा।